SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सकलकुशल बल्ली पादपूर्ति श्री शान्तिजिन स्तुतिः [२५७ ] विकटविषयभूमीजातान् दहति - विकटविषयभूमीजातदाहिका 'णकतृचौ ' ५/१/४८... के ( उप.त. पु.) विकटविषयभूमीजातदाहिका हेतिः - विकटविषय भूमीजातहेतिः, ताम् - विकटविषयभूमीजात हेतिम् । ( म. प. लो. क.) आगममहिमागानम् प्रथयतु भविकानां ज्ञानसंपत्समूह, समय इह जगत्यामाप्तवक्त्र प्रसुतः । भवजलनिधिपोतः सर्व सम्पत्तिहेतुः, प्रथितघनघटायां सूर्यकान्तप्रकाशः ॥ ३ ॥ अन्वय इह जगत्याम् भवजलनिधिपोतः सर्वसम्पत्तिहेतुः, प्रथितघनघटायां सूर्यकान्तप्रकाशः आप्तवक्त्रप्रभूतः समयः भविकानां ज्ञानसम्पत्समूहं प्रथयतु ... । .. प्रथयत्विति 'इद्द' अस्याम् दृश्यमानायाम् । 'जगत्याम् ' विश्वे । 'भवजलनिधिपोत ः ' भवः भवति सत्त्वानां जन्मजरामरणादिः यत्र संसारः एवं जलनिधिः समुद्रस्तस्य तारणे पोतः प्रवहणः इव, संसारसागरोत्तारणे यानपात्रतुल्य इत्यर्थः । “पोतः शिशौ वहित्रे च गृहस्थाने च वामसि' इति मेदिनी (५६।३८) । 'सर्वसम्पत्तिहेतुः ' सर्वासां समस्तानी बाह्याभ्यन्तरलक्षणानां सम्पत्तीनां लक्ष्मीणां हेतुः निमित्तः समस्तसम्पत्कारीत्यर्थः । ' प्रथितघनघटायाम् प्रथिता विस्तृता अनादिकालयोगत्वेन घना सान्द्रा अज्ञानानामिति अध्याहार्यम् घटा संघातः, विस्तृताज्ञानजन्या या सान्द्रसंहतिस्तस्याम् । 'सूर्यकान्तप्रकाशः सूर्यस्य खेः कान्तः मनोहरः अज्ञानान्धकारस्य १७
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy