SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रीकल्याणमन्दिरपादपूर्तिश्रीवीरजिनस्तुतिः [२७] संसारसागरनिमजदशेषजन्तुबोहित्थसन्निभमभीष्टदमाशु मुग्धम् ॥३॥ अन्वय संसारसागरनिमजदशेषजन्तुबोहित्थसन्निभं, श्रीनन्दनक्षितिजहव्यहतिप्रकारं, मुग्धम् , अभीष्टदम् , सर्वसुखैकद्वारं, जैनागमम् आशु दिशतु । जैनागममिति...'संसारसागरनिमजदशेषजन्तुबोहित्थसन्निभम्' संसरन्ति कर्मवशतो जीवा यस्मिन् संसारः प्राणिनिवासः एव सागरः समुद्रस्तस्मिन् निमज्जन्तः निपतन्तः अशेषाः समस्ताः क्षुद्रातिशुद्रजन्तुभ्यः आरभ्य अनुत्तरवासिसुराः इति यावत् जन्तवः प्राणिनः तेषां तारणे बोहित्थस्य प्रवहणस्य सनिभं सदृशं तुल्यमित्यर्थः । "यानपात्रं वहित्रकम् ॥८७५।। बोहित्थं वहनं पोतः" इति हैमः। तारकतामात्र नैव तदग्रेऽपि- श्रीनन्दनक्षितिजहव्यहतिप्रकारम् ' श्रियः लक्ष्म्यः अत्र ज्ञानलक्ष्मीः अध्याहार्या आगमस्तुतित्वात् तासां यद् नन्दनं मेरुगिरिमध्ये आगतं तन्नामकं वनं तस्य ये क्षितिजाः क्षितौ पृथिव्यों जाताः वृक्षाः तेषामुल्लासने विकाशने वा हव्यहतिः हूयते बलियोग्यद्रव्यं यस्मिन् अग्निस्तस्य हतिः विनाशः यत्र मेघस्तस्य प्रकार सदृशम् , ज्ञानसंपत्तिमयनन्दनवनस्थवृक्षविकाशने वारिदतुल्यमित्यर्थः । “अथ नन्दनम् । इन्द्रोद्याने नन्दनस्तु तनये हर्षकारिणि" ॥ ३७७ ॥ इत्यनेकार्थः (३३७७) "प्रकारौ भेदसादृश्ये" इत्यमरः (३।३।१६२ ) । 'मुग्धम् ' मुह्यतेऽनेन जगत् मनोहरम् अद्वितीयानेकान्तमार्गदर्शकत्वात् । 'अभीष्टदम् ' अमीष्टानि वाञ्छितानि ददाति प्रयच्छतीति मनःकल्पितदायकमित्यर्थः । अत एव 'सर्वसुखैकद्वारम् ' सर्व संपूर्ण सुखम् आनन्दः निर्वाणसुख
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy