SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ [ २३४ ] प्रकीर्णकस्तुतिकूलम् अमराः देवास्तेषां प्रणताः कृतनमस्कारत्वात् नम्रीभृताः-चरणविलग्ना ये मौलयः मुकुटाः "मौलिः किरीटे धम्मिले चूडाककेलिमूर्द्धसु" इत्यनेकार्थः (२।४९६ ) । तेषु विलसन्तो ये मणयः वैडूर्यादिरत्नानि तेषां याः प्रभाः कान्तयस्तासाम् उद्दीपकम् उद् प्रबलतया प्रभोः नरवद्युतिसम्मिलितत्वात् दीप्यते प्रोज्ज्वालकं कान्ति द्विगुणां कुर्वदित्यर्थः । ‘पदाम्बु जयामलम् ' पदौ चरणौ एव अम्बुजे कमले तयोः यामलं युगलं । "युगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले' इति हैमः (१४२४) । 'अनिशं' सततम् अप्रमत्तभावत्वेन । 'मुदा' हर्षेण । 'स्तोष्ये ' स्तुतिविषयं करिष्ये । इदं श्लोकचतुष्कं वसन्ततिलकावृत्तम् तल्लक्षणविदम् “उक्ता वसन्ततिलका तभजा जगौ गः" । ' અર્થ-દુષ્ટ એવા આઠ કર્મરૂપી શત્રુનાં સમૂહને ભેદી નાખનાર, સુંદર ધૈર્યવાળા, એવા હે મરૂદેવી માતાનાં પુત્ર! (ઋષભદેવ) જિનેશ્વર ભગવંત! ખરેખર હું તારા ભક્ત એવા દેનાં પ્રણામ કરાયેલાં એવા મુગુટેનાં મણિઓની કાંતિને વિશેષ તેજસ્વી કરનારા ચરણરૂપી કમલનાં યુગલની હંમેશા હર્ષથી સ્તુતિ કરીશ.. समास भक्तामरप्रणतमौलिमणिप्रभाणाम्-भक्ताश्चामी अमराश्च-भक्तामराः, (वि. पू. क.) प्रणताः मौलयः-प्रणतमौलयः, (वि. पू. क. ) भक्तामराणां प्रणतमौलयः-भक्तामरप्रणतमौलयः, (प. त. पु.) भक्तामरप्रणतमौलीनां मणयः-भक्तामरप्रणतमौलिमणयः, (ष. त. पु.) भक्तामरप्रणतमौलिमणीनां प्रभाः-भक्तामरप्रणतमौलिमणिप्रभाः, तासाम्, भक्तामरप्रणतमौलिमणिप्रभाणाम् । (ष. त. पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy