SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ वाक्यार्थं महावाक्यार्थमैदंपर्यार्थं च प्रविचार्य 'नयामृत'नाम्नो ग्रन्थरत्नस्य संकलन कृतमस्ति । लघुवयसापि तेन मुनिना व्याकरण-न्याय-काव्य-कोश-छन्दोऽलङ्कारादि विषयाणां गहनतममध्ययनं कृतं वर्तते । स्वगुरूणां समुदायवाचार्यादि मुनिवराणां च कृपाऽपि लब्धा तेन । मुनिवरस्यास्य श्रुतोपासनायां सतीर्थ्यमुनिप्रशमरतिविजय आदीक्षाकालात् साहाय्यं करोति । तस्यापि मुनिसत्तमस्यानेकविषयेषु क्षयोपशमस्तीव्रतमस्तीक्ष्णतमश्चास्ति । अभिन्नहृदयौ इव तौ मुनिवरौ संयम-स्वाध्याय-परार्थकरण-प्रवचनप्रदानादिषु सदैव निमग्नौ स्तः ।. . . अस्य ग्रन्थस्य विषयविस्तारोऽत्र मया न क्रियते यद्-गहनविषयस्यास्य ग्रन्थस्य ग्रन्थकारेण सुगमरीत्याऽऽलेखनं कृतमस्ति । वाचका विद्वांसो वाचनमात्रेणैव विषयामृतस्य माधुर्यं प्राप्स्यन्ति । देव-गुरूणां परेमकृपया स्वाध्यायरसिकोऽयं मुनिः श्रुतामृतं पायं पायं बालजीवान् बोधदायकानां विदुषामानन्ददायकानां च ग्रन्थरत्नानां सर्जनं करोतु-इत्याशंसेऽहम् । विजयमित्रानन्दसूरिः वि.सं. २०५७ प्र. आश्विन शुक्ला १३ रविवासरे ।। VII
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy