SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 'लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः' इति तत्त्वार्थभाष्यम् । लौकिकेति । विशेषप्रतिपादनपरमेतत् । यथा हि लोको निश्चयतः पञ्चवर्णेऽपि भ्रमरे कृष्णवर्णत्वमङ्गीकरोति तथायमपीति । लौकिकसम इति । कुण्डिका स्रवति, पन्थाः गच्छतीत्यादौ बाहुल्येन गौण प्रयोगाद् उपचारप्रायः विशेषप्रधानत्वाञ्च विस्तृतार्थ इति । अयमपि सकलनिक्षेपाभ्युपगमपर एव । ऋजुसूत्रनयनिरूपणम् : 'प्रत्युत्पन्नग्राही अध्यवसायविशेष ऋजुसूत्रः' । पचुप्पण्णग्गाही उजुसूओ णयविही मुणेयव्यो ।। इति सूत्रम् (अनु. १५२) प्रत्युत्पन्नग्राहित्वं च भावत्वेऽतीतानागतसम्बन्धाभावव्याप्यत्वोपगन्तृत्वं, नातोऽतिप्रसङ्गः । 'सतां साम्प्रतानामभिधानपरिज्ञानं ऋजुसूत्र' इति तत्त्वार्थभाष्यम् (१-३५) व्यवहारातिशायित्वं लक्षणमभिप्रेत्य तदतिशयप्रतिपादनार्थमेतदुक्तम् । • व्यवहारो हि सामान्य व्यवहारानङ्गत्वान्न सहते, कथं तर्हि अर्थमिति परकीयं - अतीतमनागतं चाप्यभिधानमपि तथाविधार्थवाचकं ज्ञानमपि च तथाविधार्थविषयमविचार्य ' सहेत ? इत्यस्याभिमानः । अस्यापि चत्वारो निक्षेपा अभिमताः । ... द्रव्यनिक्षेपं नेच्छत्ययमिति वादिसिद्धसेनमतानुसारिणः, तेषामुक्तसूत्रविरोधः । न चोक्त एव तत्परिहार एतन्मतपरिष्कार इति वाच्यम्, नामादिवदनुपचरितद्रव्यनिक्षेपदर्शनपरत्वादुक्तसूत्रस्य तदनुपपत्तेः । अधिकमन्यत्र ।। शब्दनयनिरूपणम् : आदेशान्तरे "यथार्थभिधानं शब्द" इति त्रयाणां लक्षणम् । .. नयामृतम् " ఎల ఎల ఎల ల డ డ బ బ ప ల ల డ ల ప ర .
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy