SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ लक्षणग्रन्थः : नैगमनयनिरूपणम् : अथ एतेषां लक्षणानि वक्ष्यामः । निगमेषु भवोऽध्यवसायविशेषो नैगमः । निगमेष्विति । तद्भवत्वं च लोकप्रसिद्धार्थोपगन्तृत्वम् । लोकप्रसिद्धिश्च सामान्यविशेषाधुभयोपगमेन निर्वहति । "णेगेहिं माणेहिं मिणइत्ति य णेगमस्स य निरूत्ति" इति सूत्रम् (अनु. १३६) नैकमानमेयविषयोऽध्यवसायो नैगम इत्येतदर्थः ।। "निगमेष येऽभिहिताः शब्दास्तेषामर्थः शब्दार्थपरिज्ञानं च देशसमग्रग्राही नैगमः” इति तत्त्वार्थभाष्यम् (१-३५) अत्र पूर्वदलं मदुक्तलक्षणकथनाभिप्रायं, उत्तरदलं च विषयविभागनिरुपणाभिप्रायमात्रम् । . देशग्राहित्वं-विशेषप्रधानत्वं, समग्रग्राहित्वं च सामान्यप्रधानत्वं पारिभाषिकम् । .: अस्य च चत्वारोऽपि निक्षेपा अभिमताः । नाम स्थापना द्रव्यं भावश्चेति ।। .नामेति । घट' इत्यभिधानमपि घट एव । अर्थाभिधानप्रत्ययास्तुल्यनामधेयाः' इति वचनात् । वाच्यवाचकयोरत्यन्तभेदे प्रतिनियतपदशक्त्यनुपपत्तेश्च । स्थापनेति । घटाकारोऽपि घट एव तुल्यपरिणामत्वात्, अन्यथा तत्त्वायोगात् । द्रव्यमिति । मृत्पिण्डादिर्रव्यघटोऽपि घट एवान्यथा परिणामपरिणामिभावानुपपत्तेः ।। · भाव इति । भावघटपदं चासंदिग्धवृत्तिकमेव ।। सङ्ग्रहनयनिरूपणम् : 'नगमायुपगतार्थसङ्ग्रहप्रवणोऽध्यवसायविशेषः सङ्ग्रहः' । नैगमेति । सामान्यनैगमवारणाय 'नैगमायुपगतार्थ'पदम् । सङ्ग्रहश्च బలము పై పై డ బుల పై లు ఎలా ల ల .
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy