SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ नैगमो मन्यते वस्तु तदेतदुभयात्मकं । निर्विशेषं न सामान्यं विशेषोऽपि न तद्विना ।।५।। संग्रहो मन्यते वस्तु सामान्यात्मकमेव हि । सामान्यव्यतिरिक्तोऽस्ति न विशेष: खपुष्पवत् ।।६।। विना वनस्पतिं कोऽपि निम्बाम्रादिर्न दृश्यते । हस्ताद्यन्त विन्यो हि नाङ्गुलाद्यास्ततः पृथक् ।।७।। विशेषात्मकमेवार्थं व्यवहारश्च मन्यते । विशेषभिन्नं सामान्यमसत्खरविषाणवत् ।।८।। वनस्पतिं गृहाणेति प्रोक्तं गृह्णाति कोऽपि किम् । विना विशेषानाम्रादींस्तन्निरर्थकमेव तत् ।।९।। व्रणपिण्डीपादलेपादिके लोकप्रयोजने । उपयोगो विशेषैः स्यात्सामान्ये न हि कर्हिचित् ।।१०॥ ऋजुसूत्रनयो वस्तु नातीतं नाप्यनागतम् । मन्यते केवलं किन्तु वर्तमानं तथा निजम् ।।११।। अतीतेनानागतेन परकीयेन वस्तुना । न कार्यसिद्धिरित्येतदसद्गगनपद्मवत् ।।१२।। नामादिषु चतुर्वेषु भावमेव च मन्यते । .. न नामस्थापनाद्रव्याण्येवमग्रेतना अपि ।।१३।। अर्थ शब्दनयोऽनेकैः पर्यायैरेकमेव च । मन्यते कुंभकलशघटाघेकार्थवाचकाः ।।१४।। ब्रूते समभिरूढोऽर्थं भिन्नं पर्यायभेदतः । भिन्नार्थाः कुंभकलशघटा घटपटादिवत् ।।१५।। नियामृतम् మండ లం డా బడా పై డా జత పడ డ కుడి ఎడా..
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy