SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आसाद्य माद्यन्ति यदीयदेश मप्यक्षपादादिकदर्शनानि ॥१॥ व्याख्या- 'तस्मै नमः श्रीजिनशासनाय' इति तावदन्वयः । अत्र हि निरूप्यस्यैव जिनशासनस्य नमस्कारकरणादर्हदादेरविशेषो दर्शितो भवतीति । किंविशिष्टाय जिनशासनाय ? 'सत्सप्तभङ्गीनयवासनाय' । सप्तभङ्गया नयानां च वासना भावना यत्र, स तथा, तस्मै । ___ ननु नयसप्तभङ्ग्याः परस्परनिरपेक्षनयानां च वासना कणादादिशासनेऽप्यस्त्येव, इत्याह-'सत्' इति । सत्पदं सप्तभङ्गीनयपदयोर्विशेषणम् । तथा च सती-प्रधाना सप्तभङ्गी सत्सप्तभङ्गी- प्रमाणसप्तभङ्गी, इत्यर्थः । प्रधानत्वं चास्याः सकलादेशरूपत्वात् । सन्तः-समुदितत्वेन यावद्वस्त्वंशग्राहित्वात् प्रधाना नयाः सन्नयाः । तथा च-सत्सप्तभङ्गयाः सनयानां च वासना जिनशासनमन्तरेण न क्वचिदप्यस्ति, इति तात्पर्यम् ।। ... ननु तच्छब्दस्य यच्छब्दसापेक्षत्वेन किं तजिनशासनम् ? इत्याह-'आसाद्य' इति । यदीयदेशम्- अंशमासाद्य-प्राप्य अक्षपादादिकदर्शनानि माद्यन्ति-मदवन्ति भवन्ति । कोऽर्थः ? अक्षपादादिदर्शनानि हि समुदितसप्तनयात्मकश्रीजिनशासनादेवैकैकं मिथोनिरपेक्षनैगमादिनयमाश्रित्य बर्हिभूतान्यपि माद्यन्ति, इत्यर्थः । यथा चैतेषां मिथोनिरपेक्षकैकनगमादिनयाश्रयणं तथाऽग्रे वक्ष्यामः । . ननु श्रोतुरभिधेयप्रयोजनज्ञानपूर्विकैव प्रवृत्तिर्भवति; अत्र चाभिधेयप्रयोजनयोरनुक्तत्वात्कथं प्रवृत्तिः ? इति चेत् न, अत्र 'सत्सप्तभङ्गीनयवासनाय' इति 'पदेनाभिधेयप्रयोजनयोरुक्तत्वात् । सप्तभङ्गीनया एवाभिधेयम् । तद्वासना चात्र साक्षात्प्रयोजनम्, परम्परया चात्रानुक्तोऽपि मोक्ष एव, इति प्रथमवृत्तार्थः ।।१।। ... अथ. सप्तभङ्गीनयनिरूपणं वाक्यप्रसिद्ध्या भवति, तद्वाक्यं च त्रिधा, तत्रापि दुर्नयवाक्यं हेयं, नयवाक्यं चोपेक्ष्यं, प्रमाणवाक्यं तूपादेयम्, इत्येतदर्शयति प्रमाणवाक्यं नयवाक्यगर्भितं निर्दूषणं दुर्नयवाक्यदूरितम् । स्यादेवयुक्तं जिनराजशासने सतां चमत्कारकरं भवेन किम् ? ।।२।। नयामृतम् । LASTANT AN D oshdकाकाजकज्य
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy