SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ यशोधरचरित्रम् जंबूद्वीपे प्रसिदेस्मिन् क्षेत्रे भरतनामनि । यौधेयो विद्यते देशो धनधान्यगुणकभूः॥१०॥ यस्मिश्चैत्यगृहोपेता ग्रामाः संति मनोहराः। . अतीव निकटा धर्मसमृद्धजनसंकुलाः॥११॥ विहरंति सदा यत्र राधेन मुनयः समम्। धर्मोपदेशनायैव भव्यानां विगतस्पृहाः ॥१२॥ पुरपत्तनखेटानि भूषितानि जिनालयः ।। यत्र दुर्गाः सुरम्या हि स्युश्च धर्मधनान्वितैः॥१३॥ वनानि यत्र भान्त्युच्चैर्मुनेवृत्तसमान्यपि। सफलान्य प्रतापानि नृणां तृप्तिकराण्यहो ॥१४॥ सरोवराणि स्वच्छाम्बुभृतान्यत्र बहून्यपि । यतेहूं दयतुल्यानि स्वच्छतृष्णापहानि च ॥१५॥ शस्यक्षेत्राणि रम्याणि काले काले कृतान्यहो। यत्रावश्यककल्पानि महाफल प्र[वि]दान्यपि ॥१६॥ यत्रोत्पन्ना जनाः केचित्तपसा यांति निर्वतिम्। केचित्सर्वार्थसिद्धिं च केचिद्मवेयकं दिवम्॥१७॥ केचित्सुपात्रदानेन चार्या भोगधरां वराम्।' केचित्कुलं धनाढ्यं [च व्रतः] सौख्यं भजन्ति च ॥१८॥ इत्यादिवर्णनोपेतं देशस्य मध्यसंस्थितम्। पुरं राजपुरं ख्यातं राजचिह्न कमन्दिरम् ॥१६॥ १. प. भरतसंज्ञके। २. क. ख. ग. भविनां । ३. क. संरम्या। ४. ग. स्वाक्ष (इन्द्रियाणि)। ५. मात्रादोषः । ६. घ. चार्य । ७. क. ख. ग. घ. व्रतेन इत्यत्र मात्रादोषः ।
SR No.002236
Book TitleYashodhar Charitam
Original Sutra AuthorN/A
AuthorBhagchandra Jain
PublisherSanmati Research Institute of Indology
Publication Year1988
Total Pages184
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy