SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ દ્ कुमारपालचरि मिच्चु - अवमचु-हरणे दिजे विसजिअ निसामिआ तेण । रिउ-सङ्ग-भञ्जणं धिट्ठाधट्ठाण विन्नत्ती ॥ ८२ ॥ पुहवीस- उउ - वसन्तो निवुत्तं - तिलय क्खणो कलि-निअत्तो । वन्दारय-बुन्दारय-समो पयट्टो तिहिं सोउं ॥ ८३ ॥ . अर्चयित्वा राजैव सौम्याह्लादकत्वादिगुणोपेतत्वाद् मृगाङ्कः मृगाङ्कनिभं वृत्तत्वशुक्लत्वाभ्यां चन्द्रतुल्यं तिलकम् अकार्षीत् ॥ ८२. मृत्युः आयुषः परिसमाप्तौ मरणम् अपमृत्युः अकालमरणम् । तयोर्हरणान् विध्वंसकान् द्विजान् विसृज्य संमाननापूर्व प्रेष्य रिपूणां शृङ्गस्य उत्कर्षस्य भञ्जकेन विनाशकेन [ तेन राज्ञा ] धृष्टाधृष्टानां प्रगल्भाप्रगल्भानां विज्ञप्तयो निशामिताः परिभाविताः ॥ सिङ्ग सङ्ग । मसिणे मसणेण । मयङ्को मिअङ्क । मिच्चु मच्चु । धिट्ठाधाण | 'मसृणमृगाङ्कमृत्युशृङ्गधृष्टे वा " [१३०] इति एषु ऋत इत् वा । ८३. निवृत्तः समाप्तस्तिलकस्य मन्त्राभिमन्त्रितविशेषकस्य क्षणः अवसरः उत्सवो वा यस्य । निवृत्तः समग्रसचराचरलोकाभयप्रदानविधानाद् गतः कलिः कलियुगं यस्मात् । वृन्दारका देवास्तेषु योगक्षेमवाहित्वाद् वृन्दारकः श्रेष्ठः । इन्द्र इत्यर्थः । तेन समः सदृक्षः । पृथ्वीश एव निखिलभूमण्डलमोदकत्वाद् ऋतुवसन्तः तिथिं श्रोतुं प्रवृत्तः । वसन्तर्तुरपि निवृत्तः संजातस्तिलकानां तिलककुसुमानां क्षणः अवसरो यत्र । निवृत्तः कामवशैवर्तित्वेन उपरतः कलिः कामिकलहो यत्र । वृन्दारकेषु निरतिशयरूपोपेतत्वेन वृन्दारको मनोहरः । कन्दर्प इत्यर्थः । तेन समः तादृक्प्रकारः विकारकारित्वात् मित्रं च मित्रेण समं भवतीति ।। कलि-निअन्त्तो इत्यत्र प्राकृतत्वाद् निअत्तो इत्यस्य परनिपातः । यथा 66 'भूअङ्कुरावयंसं छणपसर-महग्घ-मण-हर-सुरामोअं । << अपणामिअं पि गहिअं कुसुमसरेण महु-मास - लच्छीऍ मुहं ॥ " इत्यत्र महग्घेत्यस्य परनिपातः ॥ १ BCD निअत्त... निवृत्तो. २ B हिं ३D धृष्टानां प्रगल्भानाम्. ४ C निर्वृत्तः. ५ D कामवर्तिस्वेन,
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy