SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ॥ अहं ॥ अह पाईआहिँ भासाहिँ संसयं बहुलमारिसं तं तं । अवहरमाणं सिरि-वद्धमाण-सामि नमसामो ॥ १ ॥ - अत्रे च साधुसमाचारपरिपालनार्थ निर्विघ्नेन शास्त्रपरिसमाप्त्यर्थमासन्नोपकारित्वादभिमतदैवतस्य निखिलमङ्गलालयस्य श्रीवीरस्वामिनो प्रन्थकारः अभिधेयसंबन्धप्रयोजनसूचकं नमस्कारमादौ आविश्चकार ।। १. आदौ अथशब्दो मङ्गलार्थः अनन्तरार्थश्च । यदमरः । .." मङ्गलानन्तरारम्भप्रश्नकात्स्न्र्येष्बथो अथ' इति । अथ संस्कृतव्याश्रयानन्तरं प्राकृतव्याश्रयमहाकाव्यं चिकीर्षवो वयं श्रीवर्धमानस्वामिनं नमस्यामः । भगवति गर्भस्थिते ज्ञातकुलं हास्तिकाश्वीयरथकट्यापादातधनकनकमाणिक्यादिभिर्वर्धत इति वर्धमानः । श्रिया अष्टमहाप्रातिहार्यशोभया युक्तो वर्धमानः । स चासौ स्वामी च तं श्रीवर्धमानस्वामिनम् । अत्र च श्रीशब्देन पूजातिशयः प्रतिपादितः ॥ त्रिभुवनविभुं प्रति एकवचनम् आत्मानं प्रति तु बहुवचनं विरुद्धमिति न वाच्यम् । यतः अयं निरुपमत्वाद् एकः । वयं च प्राकृतप्रायाः प्रभूता इति सूचनार्थम् एकत्वबहुत्वे स्तः ॥ किंभूतम् । प्राकृतीभिर्भाषाभिः कृत्वा संशयं संदेहं आर्ष प्रचुरच्छात्रपरिवृतेन्द्रभूत्यादिऋषिसंबन्धिनं तं तं अतिशयप्रसिद्धं बहुलं जीवकर्मादिविषयत्वेन प्रभूतम् । यदुक्तम् । ..१० पायआहिं. २ D अथ. ३ BC अभिधेयप्रयोजन. ४ BC ज्ञाति'. ५ BO °महापाती.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy