SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ( १४ ) परित्यवात्क्रियः ।३।३।६। एभ्य उपसर्गेभ्यत्पराक्रोणातेः कर्तर्यात्मनेपदं स्यात् । परिक्रीणीते । विक्रीणीते । अवक्रोणीते । उपसर्गादित्येव-उपरिक्रीणाति ॥२६॥ __. 'क्री' इत्यनुकरणमनुकार्येणार्थनार्थवदिति नामत्वे संति ततः . स्यादि: ‘प्रकृतिवदनुकरणम्' इति न्यायाच्च धातुकार्यमियादेशः । एष एव एतन्यायस्य ज्ञापक: । परिक्रीणीत्यत्र “एषामीळञ्जनेऽद: ।४।२।६७। इतीकारः ॥२६॥ परावर्जः ।३।३।२८॥ आभ्यां पराज्जयतेः कर्तर्यात्मनेपदं स्यात् । पराजयते । विजयते । उपसर्गाभ्यामित्येव बहुवि जयति वनम् ॥२६॥ . जियः इत्यकृत्वा जे: करण "प्रकृतिवदनुकरणमिति न्यायस्यानित्यता पक्षेनैव । बहुवीति-बहवो वयः पक्षिणो यत्र वने तद् बहुवि । वनम्, तादृशं वनं जयतीत्यर्थः ॥२८॥ समः क्ष्णोः ।३।३।। . समः परात् क्ष्णौतेः कर्तर्यात्मनेपदं स्यात् । संक्ष्णुते शस्त्रम् । सम इति किम् ? क्ष्णौति । उपसर्गादित्येव-आयसं क्ष्णौति ॥२६॥ ___अत्रापि क्ष्णोरिति निर्देशः 'प्रकृतिवदनुकरणम्' इति न्यायस्यानित्यतापक्षे एव, अन्यथा धातुत्वादुवादेशे 'क्ष्णुवः' इति प्रयोगः स्यात् । ननु 'समो गमृच्छिपृच्छि० ।३।३।८४। इत्यत्र क्ष्णुग्रहणं क्रियतां किमत्र . पृथगारम्भेण, नैव ‘समो गमृच्छि०' इत्यत्र कर्मण्यसति आत्मनेपदविधिः, इह तु संक्ष्णुते शस्त्रम् इति सकर्मणोऽपि भवतीति पृथवसूत्रारम्भः- ॥२६।।
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy