SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [५८९] न नाम्नि । ७।३।१७६ । नाम्नि विषये कच् न स्यात् । बहुदेवदत्तो नाम ग्रामः ॥ १७६ ॥ ईयसोः । ७ । ३ । १७७। . ईयस्वन्नात् समासात् कच् न स्यात् । बहुश्रेयसी सेना ॥ १७७ ॥ - सहात तुल्ययोगे । ७।३ । १७८ । तुल्ययोगार्थात् सहाद् बहुव्रीहेः कच् न स्यात् । सपुत्रो याति । तुल्ययोग इति किम् ? सकर्मकः ॥१७८॥ भ्रातुः स्तुतौ । ७।३ । १७९ । भ्रान्तात् समासात् कच् न स्यात्, स्तुतौ गम्यायाम् । सुभ्राता ॥ १७९ ॥ नाडी-तन्त्रीभ्यां स्वाङ्गे । ७।३ । १८० । . स्वाङ्गार्थात नाडीतन्त्र्यन्तात् समासात् कच् न स्यात। बहुनातिः कायः, बहुतन्त्री ग्रीवा। स्वाङ्ग इति किम् ? बहुनाडीक स्तम्बः ॥ १८० ॥ निष्प्रवाणिः । ७।३। १८१ । 'अस्मिन् कजभावो निपात्यः । निष्प्रवाणिः पटः॥१८१।। सुभ्रवादिभ्यः । ७ । ४ । १८२ । एभ्यः कच् न स्यात् । सुभ्रूः, वरोरूः ॥ १८२ ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभि. धानस्वोपज्ञशब्दानुशासनलघुवृत्तौ सप्तमस्या. ध्यायस्य तृतीयः पादः समाप्तः ॥७॥३॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy