SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ स्वीपक्षलघुवृत्तिः [५१७) पक्षात् तिः।७।१।८९। पक्षात् तस्य मूलेऽर्थे तिः स्यात् । पक्षतिः ॥ ८९ ॥ हिमाद् एलुः सहे । ७।१ । ९० । हिमात् तस्य सहमानेऽर्थे एलु: स्यात् । हिमेलुः ॥ बलचातादूलः।७।१। ९१ । आभ्यां तस्य सहेऽर्थे ऊला स्यात्। बलूलः, वातूलः॥ शीतोष्ण-तृषाद् [प्राद् !] आलुरसहे। ७ । १ । ९२ । एभ्यस्तस्यासहेऽर्थे आलुः स्यात् । शीतालु:, उष्णालु:, तृषालु, [तृपालुः १] ॥ ९२॥ यथामुख-संमुखाद् ईनः तद् दृश्यते .ऽस्मिन् । ७।१ । ९३ । आभ्यां तदिति स्यन्ताभ्यां, अस्मिन्निति ड्यर्थे ईन: स्यात्, स्यन्तं चेद् दृश्यते । यथामुखं प्रतिबिम्बम् , यथामुखीन आदर्शः एवं संमुखीनः ॥ ९३ ॥ सर्वाऽऽदेः पथ्यङ्ग-कर्म-पत्र पात्र-शरावं व्या प्नोति ।७।१।९४। सर्वशब्दपूर्वेभ्य एभ्यो द्वितीयान्तेभ्यो व्याप्नोतीत्यर्थे ईनः स्यात् । सर्वपथीनो रथः, सर्वाङ्गीणस्तापा, सर्वकमीणो ना, सर्वपत्रीणो यन्ता, सर्वपात्रीणं भक्तम् , सर्वशरावीणं ओदनम् ॥ ९४ ॥ आप्रपदम् । ७।१।९५ । आ पदाग्राद् आमपदम् , अस्मादमन्ताद् व्याप्नोतीत्यर्थे ईन: स्यात् । आप्रपदीनः पटः ॥ ९५ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy