SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ [४१६] हेमशब्दानुशासनस्य दिस्वरादणः । ६ । १ । १०९। द्विस्वरादणन्तादपत्ये आयनिञ् स्यात् । कार्तायणिः ॥१०९॥ अवृद्धाद् दोर्नवा । ६ । १ । ११० । अवृद्धार्थाद् दोरपत्ये आयनिञ् वा स्यात्। आम्रगुप्तायनिः, आम्रगुप्तिः॥ ११०॥ पुत्रान्तात् । ६ । १ । १११ । पुत्रान्ताद् दोरपत्ये आयनिज वा स्यात् । गार्गीपुत्रायणिः, गार्गीपुत्रिः॥ १११॥ . चर्मिचर्मि-गारेट कार्कटय काकलका चाकिनात् च कश्चान्तोऽन्त्यस्वरात् । ६।१।११२। एभ्यः पुत्रान्ताच दोरपत्ये आयनिक वा स्यात् , तद्योगे कश्चान्तोऽन्त्यस्वरात् । चार्मिकायणिः, चार्मिणः। वार्मिकायणिः, वार्मिणः । गारेटकायनिः, गारेटिः। कार्कट्यकायनिः, कार्कव्यायनः । काककायनिः, काकिः । लाङ्ककायनिः, लाङ्केयः । वाकिनकायनिः, वाकिनिः । गार्गीपुत्रकायणिः, गार्गीपुत्रिः॥ ११२ ॥ अदोरायनिः प्रायः । ६ । १ । ११३ । .. अदोरपत्ये आयनिर्वा स्यात् , प्रायः । ग्लुचुकायनिः, ग्लौचुकिः । प्रायः किम् ? दाक्षिः ॥ ११३॥ १ दुसंज्ञकात् । दुसंज्ञा च "वृद्धिर्यस्य स्वरेष्वादिः'' (६-1-८) सूत्रेण भवति।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy