SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ [ ३५० ] हेमशब्दानुशासनस्य मथ-लपः । ५ । २ । ५३ । प्रात् पराभ्यामाभ्यां शीलादिसदर्थाभ्यां घिनणू स्यात् । प्रमाथी, प्रलापी ॥ ५३ ॥ वश्व द्रोः । ५ । २ । ५४ । वेः प्राच्च पराद् द्रोः शीलादिसदर्थाद् घिनण् स्यात् । विद्रावी, प्रद्रावी ॥ ५४ ॥ वि-परि- प्रात् सः | ५ | २ | ५५ | एभ्यः पराच्छीलादिसदर्थात् सत्र्त्तर्धिनण् स्यात् । विसारी, परिसारी, प्रसारी ॥ ५५ ॥ समः पृचैपू-ज्वरेः । ५ । २ । ५६ । शीलादिसदर्थाभ्यां समः पराभ्यां पृणक्तिज्वरिभ्यां घिनणू स्यात् । संपर्क, संज्वरी ॥ ५६ ॥ सं- वेः सृजः | ५ | २ | ५७ १ शीलादिसदर्थात् संविभ्यां परात् सृजेर्धिनण् स्यात । संसर्गी विसर्गी ॥ ५७ ॥ सं-परि-व्यनु- प्राद् वदः | ५ | २ | ५८ | शीलादिसदर्थादेभ्यः पराद्वदेर्धिनण् स्यात् । संवादी, परिवादी, विवादी, अनुवादी, प्रवादी ॥ ५८ ॥ वेोविच - कत्थ-स्रम्भ-कप- कस-लस- हनः । ५ । २ । ५९ । शीलादिसदर्थेभ्यो विपूर्वेभ्य एभ्यो घिनणू स्यात् । विवेकी, विकत्थी, विस्रम्भी, विकाषी, विकासी विलासी विघाती ॥ ५९ ॥ व्यपाऽभेषः । ५ । १ । ६० । एभ्यः परात् लषेः शीलादिसदर्थाद् घिनण् स्यात् । 'विलाषी, अपलाषी, अभिलाषी ॥ ६० ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy