SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ [ ३४४ ] हैमशब्दानुशासनस्य वाऽद्यतनी पुराssदौ । ५ | २ | १५ | भूतानद्यतने परोक्षे परोक्षत्वेनाऽविवक्षितेऽर्थे वर्त्तमानाद्वातोः पुरादावुपपदे अद्यतनी वा स्यात् । अवात्सुरिह पुरा छात्राः । पक्षे, अवमन् ऊषुर्वा । तदाऽभाषिष्ट राघवः पक्षे, अभाषत, बभाषेवा ॥ १५ ॥ 7 स्मे च वर्त्तमाना । ५ । २ । १६ । भूतानद्यतनेऽर्थे वर्त्तमानाद्धातोः स्मे पुराऽऽदौ चोपपदे वर्त्तमाना स्यात् । पृच्छति स्म पुरोधसम्, वसन्तीह पुरा छात्राः, अथाऽऽह वर्णी ॥ १६ ॥ पृष्टोक्तौ सत् । ५ । २ । १७ । ननाबुपपदे पृच्छतिवचने भूतेऽर्थे वर्त्तमानाद धातोवर्त्तमानेव वर्त्तमाना स्यात् । किमकार्षीः कटं चैत्रः । ननु करोमि भोः । ननु कुर्वन्तं मां पश्य ॥ १७ ॥ नवोर्वा | ५ | २ | १८ । नवोरुपपदयोः पृष्टोक्तौ भूतेऽर्थे वर्त्तमानाद् धातोर्वा वर्त्तमाना स्यात्, सा च सद्वत् । किमकार्षीः कटं चैत्र १ न करोमि भोः, न कुर्वन्तं मां पश्य, नाकार्षम् । नु करोमि भो ? नु कुर्वाणं मां पश्य, न्वकार्षम् ॥ १८ ॥ सति | ५ | २ | १९ । वर्त्तमानार्थाद् धातोर्वर्त्तमाना स्यात् । अस्ति कूरं पचति, मांसं न भक्षयति, इहाघीमहे, तिष्ठन्ति पर्वताः ॥ १ सद् वर्त्तमाना तद्वत् |
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy