SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ [२८२] हेमशब्दानुशासनस्य सिचि वृद्धिः स्यात् । अवादीत्, अब्राजीत् , अज्वालीत् , अक्षारीत् ॥ ४८ ॥ न श्वि-जागृ-शस-क्षण-इ-म्-येदितः । ४ ।३ । ४९ । - एषां मयन्तानामेदितां च परस्मैपदे सेटि सिचि वृद्धिनं स्यात् । अश्वयीत् , अजागरीत् , अशसीत् , अक्षणीत्, अग्रहीत्, अवमीत्, अहयीत्, अकगीत् ॥ ४९ ॥ . णिति । ४।३।५०। मिति णिति च परे धातोरुपान्त्यस्यातो वृद्धिः स्यात्। पाकः, पपाच ॥ ५० ॥ नामिनोऽकलि-हलेः । ४ । ३ । ५१ । नाम्यन्तस्य धातोनाम्नो वा कलिहलिवर्जस्य णिति वृद्धिः स्यात् । अचायि, कारकः, अपीपटत् । कलिहलिवर्जनं किम् ? अचकलत् , अजहलत् ॥ ५१ ॥ जागुर्बिणवि । ४ । ३ । ५२ । जागुौ णव्येव च णिति वृद्धिः स्यात्। अजागारि, जजागार । जिणवीति किम् ? जागरयति ।। ५२ ॥ आत ऐः कृऔ। ४।३। ५३ । आदनतस्य धातोणिति कृति नौ च ऐः स्यात् ।दायः, दायका, मदायि । कृदिति किम् ? ददौ ॥ ५३॥ न जन-वधः । ४।३ । ५४ । अनयोः कृति णिति औ च वृद्धिर्न स्यात् । प्रजनः, जन्या, अजनि, वधा, वध्या, अवधि ॥ ५४॥ .
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy