SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ [२६२] हैमशब्दानुशासनस्य रजयति मृगं व्याधः। मृगरमण इति किम् ? रञ्जयति रजको वस्त्रम् ।। ५१ ॥ घत्रि भाव-करणे । ४ । २ । ५२ । रञ्जरुपान्त्यनो भावकरणार्थे घनि लुक् स्यात् । रोगः । भावकरण इति किम् ? आधारे, रङ्गः ॥ ५२ ॥.. स्यदो जवे । ४ । २ । ५३ । स्यन्देपनि नलुक्वृद्ध्यभावौ निपात्येते, वेगेऽर्थे । गोस्यदः । जव इति किम् ? घृतस्यन्दः ॥ ५३॥ दशनाऽवोद-एध-उद्म-प्रश्रय-हिमश्रथम ।४।२। ५४ । एते नलुगादौ कृते निपात्यन्ते । दशनम् , अयोदः, एधा, उद्मः, प्रश्रयः, हिमश्रथः ॥ ५४॥ यमि-रमि-नमि-गमि-हनि-मनि चनति-तनादेधुटि क्ङिति । ४।२।५५।' एषां तनादीनां च धुडादौ क्ङिति लुक् स्यात् । यतः, रत्वा, नतिः, गतः, हतः, मतः, वतिः, ततः, क्षतः । धुटीति किम् ? यम्यते । क्ङितीति किम् ? यन्ता ॥ ५५ ॥.... यपि । ४ । २ । ५६ । यम्यादीनां यपि लुक् स्यात् । प्रहत्य, प्रमत्य, प्रवत्य, प्रतत्य, प्रसत्य ॥ ५६ ॥ वा मः।४।२।५७। यम्यादीनां मान्तानां यपि वा लुक् स्यात् । प्रयत्य, १ रजनं, रज्यते वाऽनेनेति भावकरणोभयस्येदमुदाहरणम् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy