SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [१८३] उपसर्गादिति किम् ? स्वापः । अनवर्णेति किम् ? प्रापम्, परापम् ॥ १०९॥ अनोर्देशे उए । ३ । २ । ११०। अनोः परस्यापो देशेऽर्थे उप् स्यात् । अनूपो देशः। देश इति किम् ? अन्वीपं वनम् ॥ ११० ॥ खित्यनव्ययाऽरुषो मोऽन्तो हस्वश्च ।३।२।१११। स्वरान्तस्यानव्ययस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे मोऽन्तो यथासम्भवं हस्वादेशश्च स्यात् । शंमन्यः, कालिंमन्या, अरुन्तुदः । खितीति किम् ? ज्ञमानी । अनव्ययस्येति किम् ? दोषामन्यमहः ॥ १११॥.... सत्यागदाऽस्तोः कारे।३ । २ ११२। एभ्यः कारे उत्तरपदे मोऽन्तः स्यात् । सत्यङ्कारः, अगदङ्कारः, अस्तुङ्कारः ॥ ११२ ॥ लोकम्पृण-मध्यन्दिनाऽनभ्याशमित्यम् ।३।२।११३। एते कृतपूर्वपदमोऽन्ता निपात्यन्ते । लोकम्पृणः मध्यन्दिनम्, अनभ्याशमित्यः ॥ ११३ ॥ ... भ्राष्ट्राग्नेरिन्धे । ३ । २ । ११४ । - आभ्यामिन्धे उत्तरपदे मोऽन्तः स्यात् । भ्राट्मिन्धः अग्निमिन्धः॥ ११४ ॥ - अगिलाद गिल-गिलगिलयोः।३।२।११५। . गिलान्तवर्जात् पूर्वपदात् परे गिले गिलगिले चोत्तरपदे मोऽन्तः स्यात् । तिमिङ्गिलः, तिमिङ्गिलगिलः । अ. गिलादिति किम् ? तिमिङ्गिलगिलः ॥ ११५॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy