SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ [९२] हैमशब्दानुशासनस्य पदान्तरिति किम् ? दधिसेकू । कृतस्येति किम् ? बिसम् ॥ १५ ॥ समासेऽग्नेः स्तुतः । २ । ३ । १६ । अग्नेः परस्य स्तुतः सस्य समासे ष् स्यात् । अग्निष्टुत् ॥ १६ ॥ ज्योतिरायुर्भ्यां च स्तोमस्य । २ । ३ । १७ । आभ्यामग्नेश्च परस्य स्तोमस्य सस्य समासे षू स्यात् । ज्योतिष्टोमः, आयुष्टोमः, अग्निष्टोमः । समास इत्येव ? ज्योतिः स्तोमं याति ॥ १७ ॥ मातृ-पितुः स्वसुः । २ । ३ | १८ | आभ्यां परस्य स्वसुः सस्य समासे षू स्यात् । मातृवसा, पितृष्वसा ॥ १८ ॥ अलुपि वा । २ । ३ । १९ । मातृपितुः परस्य स्वसुः सस्यालुपि समासे वा बू स्यात् । मातुःष्वसा, मातुःस्वसा, पितुःष्वसा पितुःस्वसा ॥ १९ ॥ निनद्याः स्नातेः कौशले | २ | ३ | २० | । आभ्यां परस्य स्नातेः सस्य समासे षू स्यात्, कौशले गम्यमाने । निष्णो निष्णातो वा पाके, नदीष्णो नदीष्णातो वा प्रतरणे | कौशल इति किम् ? निस्नातः, नदीस्नः यः श्रोतसा हियते ॥ २० ॥ प्रतेः स्नातस्य सूत्रे | २ | ३ | २१ | प्रतेः परस्य स्नातस्य सः समासे प् स्यात्, सूत्रे वाच्ये ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy