SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ॥ २॥ m ___॥ सप्तमम् परिशिष्टम् ॥ श्रीसिद्धहेमचन्द्राशब्दानुशासनप्रशस्तिः। हरिवि बलिवन्धकरत्रिशक्तियुक्तः पिनाकपाणिरिव । कमलाऽऽश्रयश्च विधिरिव जयति श्रीमूलराजनृपः ॥१॥ पूर्वभवदारगोपी-हरणस्मरणादिव ज्वलितमन्युः । श्रीमूलराजपुरुषोत्तमोऽवधी दर्मदाऽऽभीरान् चक्रे श्रीमूलराजेन नवः कोऽपि यशोऽर्णवः । परकीर्तिस्रवन्तीनां न प्रवेशमदत्त यः ॥३॥ सोत्कण्ठमङ्गलगतैः कचकर्षणैश्च वस्त्राब्जचुम्बननखक्षतकर्मभिश्च । श्रीमूलराजहतभूपतिमिविलेसुः सङ्ख्येऽपि खेऽपि च शिवाश्च सुरत्रियश्च ॥४॥ प्रावृड् जातेति हे ! भूपा मा म त्यजत काननम् । हरिः शेतेऽत्र न त्वेषो मूलराजमहीपतिः । मूलार्कः श्रूयते शास्त्रसर्वकल्याणकारणम् । अधुना मूलराजस्तु चित्रं लोकेषु गीयते ॥६॥ मूलराजासिधारायां निमग्ना ये महीभुजः । उन्मज्जन्तो विलोक्यन्ते स्वर्गगङ्गाजलेषु ते ॥७॥ श्रीमूलराजक्षितिपस्य बाहुबिभर्ति पूर्वाचलश्रृङ्गशोभाम् । संकोचयन् वैरिमुखाम्बुजानि यस्मिन्नयं स्फूर्जति चन्द्रहासः॥८॥ असंरब्धा अपि चिरं दुःसहा वैरिभूभृताम् । चण्डाचामुण्डराजस्य प्रतापशिखिनः कणाः ॥९॥ श्रीमदल्लभराजस्य प्रतापः कोऽपि दुःसहः। . प्रसरन् वैरिभूपेषु दीर्घनिद्रामकल्पयत् ॥१०॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy