SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ( १८ ) ॥ श्रीनवतस्वपरिशिष्टानि. नं. घ थी ज. (६ थी १०)॥ (प्रा० अ०) 'कर' शुभा वर्णगन्धरसस्पर्शाः, अगुरुलघुनाम कर्म " अगं न गुरु न लहुअं, जावइ जीवस्स अगुरुलहुउदया" “ । परघा उदया पाणी, परेसिं बलिणंपि होइ दुद्धरिमो ॥" "ऊससिणल द्विजुत्तो, हवेइ ऊसासनामवसा" । "रविबिंबे उ जिअंगं, तावजुअं आयवाऊ" "अणुसिणपयासरूवं, जीअंगमुजोयए इहुन्जोआ ॥" शुभधिहायोगतिहंसादीनामिव, “अङ्गोवंगनियमणं, निम्माणं कुणइ सुत्तहारसमं", "तस १ बायर २ पजत्तं ३. पत्तेअ ४ थिरं ५ सुभं च ६ सुभगं च ७ । सुस्सरा ८ इज ९ जसं, तसदसगं" सुराधायुवयं "तित्थेण तिहुअणस्स वि, पुजो से उदयकेवलिणो” ॥ ९ ॥ अथपापभेदानाह (वृ०) 'वण्णचउक्क त्ति यदुदयाजीवस्य शुभो वणः शुभोगन्धः शुभो रसः शुभः स्पर्शः स्यादिति वर्णचतुष्कं २१, यदुदयात् सर्वजीवापेक्षया निजं निजं शरीरं अगुरुलघु न च गुरुकं न च लघुकं भवति तदगुरुलघुनामकर्म २२, यदुदयात् वीर्यातिशयेन शत्रून् व्यापादयति तत्पराघातनामकर्म २३, यदुदयात् जीवितव्यलक्षण उच्छ्वासनिःश्वासवातः प्रवर्त्तते तदुच्छवासनामकर्म २४ यदुदयाद्रविबिम्बे तापवच्छरोरं भवति तन्मूर्यबिम्बस्यातपनामकर्म २५, यदुदयादनुष्णेऽपि देहे खद्योतवदुद्योतः स्यात्तदुद्योतनामकर्म २६, यदुदयात् हंसगजादिवत्त्व( सुंद)रा गतिर्भवति सा शुभविहायोगतिः २७, यदुदयात् स्वस्वस्थानेषु चक्षुराद्यङ्गोपाङ्गानां निष्पत्तिस्तनिर्माणनामकर्म२८, तसदसग'त्ति यदुदयात्रसति चलति द्वीन्द्रियादिजीवस्तन्त्रसनामकर्म२९, यदुदयाच्छद्मस्थगोचरीभूतं षड्विधजीवनिकायस्य शरीरं तद्बादरनामकम्म ३०, यदुदयादाहारशरीरेन्द्रियोच्छ्वासनिःश्वासभाषामनोभिः परिपूर्णता स्यात् तत्पर्याप्तनामकर्म ३१, यदुदयात् प्रतिजीवमौदारिकादिशरीरं स्यात्तत्प्रत्येकनामकर्म ३२,यदुदयाद्दन्तास्थ्यादिनिश्चलता स्यात् तत्स्थिरनामकर्म ३३, यदुदयात् मूर्दादिप्रधानाङ्गानां निष्पत्तिः तच्छुभनामकर्म
SR No.002216
Book TitleNavtattva Sahitya Sangraha
Original Sutra AuthorN/A
AuthorUdayvijay
PublisherMansukhbhai Manekbhai
Publication Year1922
Total Pages250
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy