SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सौभाग्यपञ्चम्या: ज्ञानपञ्चम्या वा सत्तप: पञ्चमीसत्तपः तस्मिन् सा च ज्ञानपञ्चमीश्रेष्ठतपस्यायामित्यर्थः । कल्याणं श्रेय: वितनुतां करोतु । आसु चतसृषु स्तुतिषु नग्धरावृत्तं तल्लक्षणं चैवम् 'भ्रम्नैर्यानां त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्'यस्यां मगण-रगण- भगण-नगण-यगण-यगणा: सप्तभिः सप्तभिः वर्णैः विराम: सा स्रग्धरा ज्ञेया।।' जन्माभिषेकस्य किञ्चित् स्वरूपम्-अस्यैव जम्बूद्वीपस्य भरतनाम्नि क्षेत्रे ऋद्विमती शौर्यपुरी नाम्नी नगरी आसीत् । तत्र प्रतापी धर्मप्रियः समुद्रविजयनामा सम्राट् बभूव, तस्य राज्ञः शिवादेवी नाम्नी पट्टराज्ञी चासीत्, तौ च सुखपूर्वकं भोगं भुञ्जानौ कालं निर्गमयत:, इतः श्रीनेमिजीव: पञ्चानुत्तरेषु विमानेषु श्रेष्ठतरात्. - अपराजिताभिधानात् विमानात् च्युत्वा कार्तिकासित-द्वादशीतिथौ चन्द्रे चित्रानक्षत्रे समायाते शिवादेवीकुक्षौ समावतरत्, शिवादेवी अर्धजाग्रदवस्थायां चतुर्दशमहास्वप्नानि अपश्यत्, चक्रवर्तित्व-जिनत्वेति द्विपदवीधरस्य जिनस्य माता द्विवारं चतुर्दशस्वप्नानि पश्यति, तत्र प्रथमं तावत् अल्पतेजोयुतानि marwarimaarwwwwwwwwwwwwwwwwwwwwwwwww ७3 पञ्चमी स्तुति
SR No.002211
Book TitlePanch Stotrani
Original Sutra AuthorN/A
AuthorDharmtilakvijay
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy