SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पीयूषगीर्देवरतीरतीरतीः ॥ ३ ॥ दीपिका टीका-श्री त्रैशलेयो जिनो देयाद् इत्यन्वयः, त्रिशलाया अपत्यं त्रैशलेयः, श्रिया युक्तः त्रैशलेयः श्रीत्रैशलेय:-श्रीमहावीर इत्यर्थः, जिन:-तीर्थकरः, कीदृशो जिन: ? अवृजिन:-वृजिनं पापं कर्म वा, तन्न विद्यते यस्य सोऽवृजिन: पापकर्मरहित इत्यर्थः, पुन: कीदृशः ? जिन: जयतीति जिनः, विजेतेत्यर्थः; कस्य विजेता ? *अनंगाधिराज:-अनङ्गः काम:, स चासौ अधिराट्, तस्य अनगाधिराजः, कामरूपप्रबलनृपस्य विजेतेत्यर्थः, अलंअत्यन्तम् । व: युष्मभ्यम् । देयाद्-ददातु इत्यर्थः, का: ददातु ? इत्याह-परमारमेत्यादि-अरीणां समूह आरम्, परमं च तद् आरं च परंमारम्, कामक्रोधादिपरमशत्रुसमूहः, तस्य मारा मारका: परमारमारा:, सिद्धा-इत्यर्थः, तेषां मालक्ष्मी: मोक्षलक्ष्मीरित्यर्थः, पीयूषगी:-सुधा सदृशी वाणी, देवरति:-सुदेवविषयकरागः, परमारमा च पीयूषगीश्च देवरतिश्च परमारमारमापीयूष-गीर्देवरतयः, तास्तथा, अयं भाव:श्रीमहावीरस्वामी सिद्ध-लक्ष्मी सुधासदृशीं वाणी सुदेवविषयकरागं च ददातु । .. www.maaaaaaaaaaaaaaaaaaaaaaaaaaaaaaa ॥ पंच स्तोत्राणि ॥ ५८
SR No.002211
Book TitlePanch Stotrani
Original Sutra AuthorN/A
AuthorDharmtilakvijay
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy