SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ पाठः सम्यगाभाति । मुनिस्नान् मुनिकुशलान् तारयतीति मुनिस्नतार: तं तथा । मुनिकुशला एव साक्षान्मुक्तेरो इति मुनिशब्दोपादानम्, इतरथा भव्यपदोपादानं स्यादिति भाव: । यद्वा मुनीशितारमिति पाठः, तत्र मुनीनामिशमित्यर्थः । ___ पुनः कीदृशम् ? सुदरं-दकारो दमनवाचकः, सुन्दरदमनं राति उपदेशद्वारा भव्येभ्यः प्रयच्छतीति सुन्दरः, तं तथा । पुनः कीदृशम् ? दरंदरम्-दरं भयं दृणाति नाशयतीति दरंदरः, तं तथा, (बहुलाधिकारात्-ख:) भयनाशकमिति भावः । ____ पुनः कीदृशम् ? अर्हन्तम्-अर्हति अष्टमहाप्रातिहार्यादि पूजायोग्यो भवतीत्यर्हन, तं तथा, तीर्थकरमित्यर्थः । अहोइत्याश्चर्ये । पुनः कीदृशम् ? महोमहोदयं-महस: प्राणीनां ज्ञानादितेजसो महानुदयो यस्मात् सः, तं तथा पुनः कीदृशम् ? भक्तहितं-भक्तजनहितकरम्, यद्वा अकारप्रश्लेशात्-अभक्तहितं-शत्रुजनानामपि हितकरम्, अथवा भक्तं विभक्तं हिताहितसमुदायात् पृथक्कृत्य गृहीतं हितं येन स भक्तहितः, तं तथा, अत एव हितं सकलजन्तुहित-करम्, aamaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaai ॥ पंच स्तोत्राणि ॥ ५४
SR No.002211
Book TitlePanch Stotrani
Original Sutra AuthorN/A
AuthorDharmtilakvijay
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy