SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ विपश्चित् दोषज्ञः' इत्यमरः भवनुग्रहलेशतरङ्गिता: सन्त:, अनुग्रहः प्रसाद: तस्य लेश: इषत् सम्बन्ध: अनुग्रंहलेश: भवत्या अनुग्रहलेशेन तरङ्गिताश्चञ्चलीभूताः भवदनुग्रहलेशतरङ्गिताः तव कृपालवकल्लोललोलिता इति तदर्थः, नृपसभासु नृपाणां राज्ञां सभा: परिषदः, - ‘समज्या परिषद्गोष्ठी सभा समितिसंसदः' इत्यमरात्, तासु तदुचितम् तेषां राज्ञां उचितम् उपयुक्तम् अर्थात् पथ्यं सन्मनोऽनुकूलमिति तदुचितम् मनोऽनुकूलमपि अहितकरं चेदुचितं नोच्यते, विपश्चितस्तादृशमपथ्यं न भाषन्ते यदुक्तं भारविणा 'नहि प्रियं, प्रवक्तुमिच्छन्ति मृषा हितैषिणः' इति तत् ‘हितं मनोहारि च दुर्लभं वचः' इति किरातकथितं सामान्यजनानिर्वचनीयं वचनीयम् प्रवदन्ति प्रयुञ्जन्ति यतय: तथा वाग्व्यापारप्रयोजनात् कमलाबलाकुचकलाललनानि कमला लक्ष्मी: सैवाबला-ललना तस्या: कुचौः स्तनौ तयोः कला भूति: तस्या ललनानि क्रीडनानि रमारामावक्षोजविभूतिलीला: इति वितन्ते विस्तारयन्ति पण्डिता इति शेष: । राज्ञोऽनुरज्याविलम्बेन ततो नितान्तं सम्पदामाप्नुवन्तीति भावः । अत्रानुप्रासालकृति: ।।६।। wwwanmaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaar ॥ पंच स्तोत्राणि ॥ १०४
SR No.002211
Book TitlePanch Stotrani
Original Sutra AuthorN/A
AuthorDharmtilakvijay
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy