SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ गच्छतीति विहङ्गम: पक्षी, कर्मधारयसमासश्चाभेदार्थक: तथा च हंसाभिन्नपक्षीत्यर्थः, कलमरालविहङमो वाहनं यस्याः सा कलमरालविहङ्गमवाहना, बहुव्रीहावन्यपदार्थस्य प्राधान्यात्, अन्यस्य चात्र स्त्रीत्वेन वाहनशब्दात् 'आत्' ।।२।४।१८। इति सिद्धहेमसूत्रेण 'आप' स्त्रीप्रत्ययः, अत्रप्रथमपादस्थमरालशब्दं स्तुतिकार: सित-शुभ-इत्यादिकं विहाय कलविशेषणेन विशेषयतीत्यत्रेदं तात्पर्यं यत् सितत्वशुभत्वादिकं तु कारणान्तरेणापि भवति किन्तु कल-मधुरशब्दजननसामर्थ्यन्तु सरस्वतीसेवाजन्यम् इति वाहनव्याजेन सेवां कृत्वा मरालेन तत् सम्पादितमिति । सर्वदा दर्शनीयत्वेऽपि स्त्रीत्वात् वस्त्रादिरहितावस्थायां ब्रह्मचारिणां तदीयदर्शनयाञ्चनं सर्वथानुचितमिति वस्त्रादिविभूषितस्वरूपां तामाह-सितदुकूलविभूषणलेपनेतिसितं शुभ्रं च तत् दुकूलं सूक्ष्मक्षौमवरन इति सितदुकूलं, विभूषणं विशेषेण भूषयति शरीरमिति-विभूषणमलङ्कारः, लेपन-जलघृष्टचन्दनादिसुगन्धि द्रव्यम्, सितदुकूलं विभूषणं लेपनं च यस्या: सा सितदुकूलविभूषणलेपना सितदुकूलेति द्वितीयविशेषणदानेन सरस्वत्या: स्वस्थमनोरमावस्था बोधिता, अन्यथा एतदवस्थायां सविनयं प्रार्थिताऽपि सा प्रार्थितार्थदानं ܝܝܝܝܝܝܝܝܝܝܝܝܝܝܝܝܝܝܝܝܝܝܝܼܝܝܚܝܝܝܝ wwwammmmmmmmm .८७ अनुभूतसिद्धसारस्वतस्तव:
SR No.002211
Book TitlePanch Stotrani
Original Sutra AuthorN/A
AuthorDharmtilakvijay
PublisherSmrutimandir Prakashan
Publication Year2004
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy