SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ૧૩૭ નિયાયિકમત सातं तान्यादिर्यस्य तद्बुद्धीन्द्रियसुखादि । चकार आत्मदेहाद्यपेक्षया समुच्चये । अत्र विशेषणद्वय आद्यशब्देनादिशब्देन च शेषाणामपि सप्तानां प्रमेयानां संग्रहो दष्टव्यः । तथा च नैयायिकसूत्रम्- आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गभेदेन द्वादशविधं तदिति प्रमेयम् ।" [ न्यायसू० १।१।९] तत्र शरीरादिदुःखपर्यन्तं हेयम्, अपवर्ग उपादेयः, आत्मा तु कथंचिद्धेयः कथंचिदुपादेयः सुखदुःखादिभोक्तृतया हेयः तदुन्मुक्ततयोपादेय इति । तत्रेच्छाद्वेषप्रयत्नसुखदुःखज्ञानादीनामाश्रय आत्मा । सचेतनत्वकर्तृत्वसर्वगतत्वादिधर्मैरात्मा प्रतीयते १ । तद्भोगायतनं शरीरम् २ । पञ्चेन्द्रियाणि घ्राणरसनचक्षुस्त्वक्श्रोत्राणि ३ । पञ्चार्था रूपरसगन्धस्पर्शशब्दाः । तत्र गन्धरसरूपस्पर्शाश्चत्वारः पृथिवीगुणाः, रूपरसस्पर्शास्त्रयोऽपां गुणाः । रूपस्पशी तेजसो गुणौ, एकः स्पर्शो वायोर्गुणः, शब्द आकाशस्य गुण इति ४ । बुद्धिरुपलब्धिर्ज्ञानमित्यर्थः, सा क्षणिका, भोगस्वभावत्वाच्च संसारकारणमिति हेया ५ । इन्द्रियार्थसंनिकर्षे सत्यपि युगपज्ज्ञानानुत्पादादान्तरसुखादिविषयोपलब्धेश्च बाह्यगन्धादिविषयोपलब्धिवत्करणसाध्यत्वादान्तरं करणं मनोऽनुमीयते, तत्सर्वविषयं तच्चाणु वेगवदाशुसंचारि नित्यं च ६ । वाग्मनःकायव्यापारः शुभाशुभफलः प्रवृत्तिः ७ । रागद्वेषमोहास्त्रयो दोषाः, ईर्ष्यादीनामेतेष्वेवान्तर्भावः, तत्कृतश्चैष संसारः ८ । देहेन्द्रियादिसंघातस्य प्राक्तनस्य त्यागेन संघातान्तरग्रहणं प्रेत्यभावः, एष एव संसार: ९ । प्रवृत्तिदोषजनितं सुखदुःखात्मकं मुख्यं फलं, तत्साधनं तु गौणम् १० । पीडासंतापस्वभावजं दुःखम्, फलग्रहणेनाक्षिप्तमपीदं सुखस्यापि दुःखाविनाभावित्वात् दुःखत्वभावनार्थमुपदिश्यते ॥११॥ आत्यन्तिको दुःखवियोगोऽपवर्गः, सर्वगुणवियुक्तस्यात्मनः स्वरूपेणावस्थानम् । सुखदुःखयोविवेकेन हानस्याशक्यत्वात् दुःखं जिहासुः सुखमपि जह्यात्, यस्माज्जन्मजरामरणप्रबन्धोच्छेदरूपः परमः पुरुषार्थोऽपवर्गः, स च तत्त्वज्ञानादवाप्यते १२ ॥२४॥ 60. આમ પ્રથમ પ્રમાણતત્ત્વનું વ્યાખ્યાન કરીને હવે આચાર્ય પ્રમેયતત્ત્વની व्याण्या ४२वानी २७tथा छ – 'प्रमेयं त्वात्मदेहाद्यम् (प्रमेय तो मात्मा हे वगेरे છે)'. પ્રમાણના ફળરૂપ જે જ્ઞાન છે તેના ગ્રાહ્યને અર્થાત્ વિષયને પ્રમેય કહે છે. તે પ્રમેય આત્મા, દેહ આદિ છે. આત્મા એટલે જીવ અને દેહ એટલે શરીર જેમની Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002138
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2009
Total Pages819
LanguageGujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy