SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् अनुरक्त भृत्य किसी मूर्ख के बहकावे में आकर अपने स्वामी के रहस्य को छुपा नहीं सकने पर, स्वामी द्वारा त्याग दिया जाता है ॥३॥ मूर्तो मूल्नुपममहसा गीयसे शम्बरस्यारातिस्तत्तत्परिचितिरनौचित्यमाविविधत्ते । इत्यूचाना निजशुचिसिचा भीष्मजोन्मृज्य वर्माऽऽनैषीधे ते स शशिविशदे वाससी पर्यवत्त ॥४॥ मूर्तो मूर्त्या • हे पयोद ! सः श्रीनेमिः ते वाससी वस्त्रे पर्यवत्त परिहितवान् । ये वाससी भीष्मजा रुक्मिणी आनेषीत् आनिनये । किंरूपे वाससी-शशिविशदे चन्द्रवत् निर्मले । किं लक्षणा भीष्मजा-निजशुचिसिचा स्वकीयपवित्रवस्त्रेण वर्भ श्रीनेमेः शरीरं उन्मृज्य रुक्षयित्वा इत्यूचाना इति उक्तवती । इतीति किं-- श्रीनेमिन् ! त्वं मूर्त्या कृत्वा मूर्ती मूतिमान् शम्बरस्य अरातिः शत्रुः कन्दर्पो गीयसे कथ्यसे । किरूपया मूर्त्या-अनुपममहसा निरुपमान् तेजसा । तत् तस्मात्कारणात् तत् परिचिति तस्य शम्बरस्य परिचितिः सम्पर्कः अनौचित्यं अयोग्यत्वं आविविधत्ते प्रकटीकरोति । ननु कामः शम्बरस्य वैरीत्वं मूत्तिमान् काम एव । अतः शम्बरस्य परिचितिः तव न युक्तेतिभावः । यतः शम्बरशब्देन जलं कामस्य अरिः च कथ्यते ॥४॥ रुक्मिणी ने यह कहते हुए कि 'आप तो अपनी अनुपम शोभा से साक्षात् कामदेव हैं अतः आपका जल से सम्बन्ध अच्छा नहीं है' अपने उज्ज्वल वस्त्र से श्रीनेमि को निर्जल (पोंछ) कर उन्हें चन्द्रमा के सदश दो धवल वस्त्र समर्पित किये जिन्हें भगवान् श्रीनेमि ने धारण कर लिया ॥४॥ सौवर्णेऽथ न्यविशत विभुर्विष्टरे रिष्टरेखालेखालोक्ये सितनिवसनः संप्रयुक्ते तयैव । नन्द्यावर्तावलिवलयिनि स्वर्णशैले निषण्णं त्वामेव स्म स्मरति तथा संबलाकाकलापम् ॥५॥ सौवणे • हे जलधर ! अथ वस्त्रपरिधानानन्तरं विभुः श्रीनेमिः सौवर्णे सुवर्णमये विष्टरे आसने न्यविशत । किंरूपे विष्टरे-रिष्टरेखालेखालोक्ये रिष्टस्य रिष्टरत्नस्य लेखया रेखया कृत्वा लेखानां देवानां आलोक्ये आलोकनीये । पुनः किंरूपे-तयैव रुक्मिन्या एव संप्रयुक्ते उपढौकिते । किंरूपो विभुः-सितनिवसन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy