SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ क्रमाक्रमाभ्यां नित्यानां, युज्यतेऽर्थक्रिया न हि । एकान्तक्षणिकत्वेऽपि, युज्यतेऽर्थक्रिया न हि । यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथात्थ भगवन्नैव तदा दोषोऽस्ति कश्चन ॥५॥ गुडो हि कफहेतुः स्यानागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति गुडनागरमेषजे ॥६॥ द्वय विरुद्धं नैकत्राऽसत्प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि, दृष्टो मेचकवस्तुषु ॥७॥ विज्ञानस्यैकमाकारं, नानाकारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो, नानेकान्तं प्रतिक्षिपेत् ॥८॥ चित्रमेकमने च, रूपं प्रामाणिकं वदन् । योगो वैशेषिको वापि, नानेकान्तं प्रतिक्षिपेत् ॥९॥ इच्छन्प्रधानं सत्त्वाद्यैर्विरुद्धैर्गुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो, नानेकान्तं प्रतिक्षिपेत् ॥१०॥ विमतिस्सम्मतिर्वापि, चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु, यस्य मुह्यति शेमुषी ॥११॥ तेनोत्पादव्ययस्थेमम्भिन्नं गोरसादिवत् । क्दुपज्ञ कृतधियः, प्रपन्ना वस्तुतस्तु सत् ॥१२॥ || इत्यष्टमप्रकाशः ॥ यत्राल्पेनापि कालेन, त्वद्भक्तेः फलमाप्यते । कलिकालः स एकोऽस्तु, कृतं कृतयुगादिभिः ॥१॥ सुषमातो दुःषमायां, कृपा फलवती तव । - मेरुतो मरुभूमौ हि, श्लाघ्या कल्पतरोः स्थितिः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002070
Book TitleVitragstav
Original Sutra AuthorHemchandracharya
AuthorBhagvandas Mehta
PublisherShrimad Rajchandra Ashram
Publication Year1965
Total Pages446
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Devotion, & Worship
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy