SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १६६ श्रीज्ञानमञ्जरी चर्मचक्षुर्भृतः सर्वे, देवाश्चावधिचक्षुषः । सर्वतश्चक्षुषः सिद्धाः, साधवः शास्त्रचक्षुषः ॥१॥ चर्मचक्षुर्भूत इति-सर्वे-तिग्मनुष्याः चर्मचक्षुर्भूतः, मतिश्रुतज्ञानावरणीय-चक्षुर्दर्शनावरणीय-वीर्यान्तरायक्षयोपशममूलं जातिनामकर्म-पर्याप्तिनामकर्म-शरीरनामकर्म-निर्माणनामकर्मोदयजन्यचक्षुर्भृतः तद्धराः२ । च-पुनः, देवाः-(सुराः) अवधिचक्षुषः-अवधिज्ञानावरणीयावधिदर्शनावरणीयक्षयोपशमसमुत्थज्ञानदृष्टयः । सिद्धाः सर्वचक्षुर्धराःसर्वप्रदेशकेवलोपयोगमयाः, साधवः-निर्ग्रन्थाः शास्त्रचक्षुषः-शास्त्रावलम्बिज्ञानधराः । उक्तं च आगमचक्खू साहू, चम्मचक्खूणि सव्वभूआणि । देवा य ओहिचक्खु, सिद्धा पुण सव्वओ चक्खू ॥१॥ अतः निर्ग्रन्थानां वाचनादिस्वाध्यायमुख्यत्वम् ॥१॥ पुरःस्थितानिवोर्ध्वाधस्तिर्यग्लोकविवर्तिनः । सर्वान् भावानवेक्षन्ते, ज्ञानिन: शास्त्रचक्षुषा ॥२॥ पुरःस्थितानिति-ज्ञानिनः शास्त्रचक्षुषा-आगमोपयोगेन ऊर्ध्वाधस्तिर्यग्लोकविवर्तिनः-त्रैलोक्यवर्तिनः, भावान्-पदार्थस्वरूपान् सर्वान् सूक्ष्मबादरान् सहजान् विभावजान् परोक्षानपि क्षेत्रान्तरस्थानपि, आगमबलेन पुरःस्थितानिव-सन्मुखस्थानिव अवेक्षन्ते-पश्यन्ति । अत्र दर्शनं मानसं श्रुतक्षयोपशमजं ज्ञेयम् ॥२॥ शासनात् त्राणशक्तेश्च, बुधैः शास्त्रं निरुच्यते । वचनं वीतरागस्य, तत्तु नान्यस्य कस्यचित् ॥३॥ शासनादिति-बुधैः-विद्वद्भिः, च-पुनः, त्राणशक्तेः- भवभीतकर्मावगुण्ठितविभावभुग्नजीवानां त्राणं-रक्षणं तस्य शक्ति:-सामर्थ्य यस्य सः, १. मूल० A.D.,V.2.,B.1. । २. धराः V.1.,B.2.,S.M. । ३. चक्षुषः V.1.,B.2.,A.D. I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy