SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सर्वसमृद्धयष्टकम् (२०) १४७ विस्तारितक्रियाज्ञान-चर्मच्छरो निवारयन् । मोहम्लेच्छमहावृष्टिम्, चक्रवर्ती न किं मुनिः ? ॥३॥ विस्तारितेति-"मुनिः"-समस्तावविरतः द्रव्यभावसंवररतः, किं चक्रवर्ती न ? अपि तु अस्त्येव । किं भूतः ? विस्तारितक्रियाज्ञानचर्मच्छत्र:-क्रिया च ज्ञानं च क्रियाज्ञाने, चर्म च छत्रं च चर्मच्छत्रे, क्रियाज्ञाने एव चर्मच्छत्रे, क्रियाज्ञानचर्मच्छत्रे, विस्तारिते क्रियाज्ञानचर्मच्छत्रे येन सः विस्तारितक्रियाज्ञानचर्मच्छत्रः इत्यनेन सत्क्रियोद्यतः सम्यग्ज्ञानोपयुक्तः । मोह एव म्लेच्छः तस्य महती वृष्टिः महावृष्टिः तां निवारयन् । मोहम्लेच्छा:-उत्तरखण्डनाथाः तत्प्रयुक्तमिथ्यात्वदैत्यकृता कुवासनावृष्टिः ताम्, शुद्धसम्यग्दर्शननिवारितकुवासनाचयः मुनिः भावचक्रवर्तीव भासते ॥३॥ . नवब्रह्मसुधाकुण्ड-निष्ठाधिष्ठायको मुनिः । नागलोकेशवद्भाति, क्षमां रक्षन् प्रयत्नतः ॥४॥ नवब्रह्मेति-मुनिः-भेदज्ञानगृहीतात्मध्यानः, नागलोकेशवत्-उरगपतिवद् भाति, किं कुर्वन् ? क्षमां पृथ्वीं मुनिपक्षे क्रोधापहरणपरिणति:१ वचनधर्मात्मिकारे क्षमारे तां रक्षन् धारयन् इति । उरगपतेः क्षमाधारकत्वं लोकोपचारतः, नहि रत्नप्रभाद्याः भूमय: केन धृताः, उपमा तु महत्त्वज्ञापिका सामर्थ्यज्ञापिका च । पुनः कथम्भूतो मुनिः ? नवं यद् ब्रह्मज्ञानं सा एव (तदेव) सुधा तस्याः कुण्डम्, तस्य निष्ठा-स्थितिः तस्या अधिष्ठायकः, इत्यनेन तत्त्वज्ञानामृतकुण्डस्थैर्यरक्षकः इति ॥४॥ मुनिरध्यात्मकैलाशे, विवेकवृषभस्थितः । .. शोभते विरतिज्ञप्ति-गंगागौरीयुतः शिवः ॥५॥ मुनिरध्यात्मेति, अत्र श्लोकत्रये महादेवकृष्णब्रह्माद्युपमानम् औपचारिकम्, नहि ते कैलाशगङ्गासृष्टिकरणोद्यताः, किन्तु लोकोक्तिरेषा, तेन १. परिणितं V.1.A.D. । २. धर्मात्मिकां सर्वप्रतिषु । ३. क्षमा सर्वप्रतिषु । ४. ज्ञापका सर्वप्रतिषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy