SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अनात्मशंसाष्टकम् (१८) १३३ प्रशंसां न करोति तदेवाह गुणैर्यदि न पूर्णोऽसि, कृतमात्मप्रशंसया । गुणैरेवासि पूर्णश्चेत्, कृतमात्मप्रशंसया ॥१॥ गुणैरिति-यदि गुणैः-केवलज्ञानादिभिः, पूर्णः न असि तर्हि आत्मप्रशंसया-व्यर्थात्मस्तुत्या, कृतं-नाम सृतम् । निर्गुणात्मनः का प्रशंसा ? पौद्गलिकोपाधिजा गुणा इति मूढा वदन्ति तैर्न प्रशंसा । चेद्-यदि सम्यग्दर्शनज्ञानचारित्रतपोरूपैः साधनगुणैः, क्षायिकज्ञानदर्शन-चारित्ररूपैः सिद्धगुणैः पूर्णः तर्हि' वाचिकात्मप्रशंसया कृतंसृतमित्यर्थः। प्राग्भाविताः गुणाः स्वत एव प्रकटीभवन्ति, नेक्षुयष्टिः पलालावृता चिरकालं तिष्ठतीति का स्वमुखात्स्वगुणशंसना ॥१॥ पुनर्व्यवहारेण दर्शयति श्रेयोद्रुमस्य मूलानि, स्वोत्कर्षाम्भःप्रवाहतः । पुण्यानि प्रकटीकुर्वन्, फलं किं समवाप्स्यसि ? ॥२॥ श्रेयोद्रुम इति-भो भद्र ! पुण्यानि-पवित्राणि श्रेयोद्रुमस्य मूलानिकल्याणवृक्षास्तेषां मूलानि-स्वोत्कर्षाम्भःप्रवाहतः स्वस्य उत्कर्षःऔत्सुक्यं तदेव अम्भःप्रवाहः तस्मात् प्रकटीकुर्वन्-व्यक्तं कुर्वन्, किं फलं समवाप्स्यसि ? अपि तु नैव, यस्य द्रुमस्य मूलमुत्खातं तेन फलापत्तिर्न भवति ॥२॥ आलम्बिता हिताय स्युः, परैः स्वगुणरश्मयः । अहो ! स्वयंगृहीतास्तु, पातयन्ति भवोदधौ ॥३॥ आलम्बिता इति-स्वगुणरश्मयः-आत्मीयगुणरज्जवः, परैः-अन्यैः आलम्बिताः-स्मरणचिन्तनेन गृहीता हिताय-कल्याणाय स्युः-स्वसुखाय भवन्ति । अहो इति आश्चर्ये । स्वगुणाः स्वयंगृहीता भवोदधौ पातयन्ति २स्वमुखेन स्वगुणोत्कर्षः न कार्यः ॥३॥ १. तद्गुणैस्तर्हि B.2., V.2, L.D.2. । २. स्वमुखे S.M. विना । ૧૩ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy