SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १०६ श्रीज्ञानमञ्जरी विकारता कथमिति निवारयन्नाह यथा योधैः कृतं युद्धम्, स्वामिन्येवोपचर्यते । शुद्धात्मन्यविवेकेन, कर्मस्कन्धोर्जितं तथा ॥४॥ यथा योधैरिति यथा योधैः-सुभटैः कृतं युद्धं-समरम्, स्वामिनिनृपे, उपचर्यते जयपराजयहर्षविषादश्लोकाश्लोकादिकं स्वामिनि एव अयं नृपः जितः अयं पराजितः लोके इत्युक्तिर्भवति तच्च स्वामित्वांशं ममत्वैकत्वेन तथा संग्रहेण शुद्धे आत्मनि अविवेकेन-अज्ञानेन असंयमेन कर्म-ज्ञानावरणादि तस्य स्कन्धः-समूहः तस्य ऊर्जितं-साम्राज्यमस्ति इत्यनेन स्वस्वरूपकर्तृत्वभोक्तृत्वपरावृत्तौ ग्राहकतादिशक्तिपरिग्रहणेन तत् कर्तृत्वापत्तिर्जीवस्योपचर्यते-उपचारः क्रियते, असदारोप उपचारः, परभावकर्तृत्वादिपरिणत्यभावेऽप्यौपाधिककर्तृत्वाद्युपचारोऽनादीनः इति ॥४॥ पुनस्तदेव कथयति परप्रसङ्गाच्चैतन्यव्यामोहं दर्शयतिइष्टकाद्यपि हि स्वर्णम्, पीतोन्मत्तो यथेक्षते । आत्माभेदभ्रमस्तद्वद् देहादावविवेकिनः ॥५॥ इष्टकाद्यपि इति-कश्चित् पीतोन्मत्तः-पीतेन-कनकेन पङ्क्तिरथन्यायेनार्थः धत्तूरकेणोन्मत्तः-घूर्मितः इष्टकाद्यपि मृन्मयस्कन्धानपि हीति-निश्चितं स्वर्णम् ईक्षते-विलोकते तद्वत् अविवेकिन:-तत्त्वज्ञानविकलाः, 'देहादौ-शरीरादौ, आत्माभेदभ्रमः(भ्रम)ईक्षते (न्ते) आत्मना -चेतनेन सह न भेदः-अभेदः तस्य भ्रमः (भ्रमं) कुर्वन्ति । शुद्धागमाश्रवणाज्ञातस्वपरविभेदः परं स्वात्मत्वेन जानन् आत्मानं परेणैकत्वं मन्यमानः भ्रमत्यनन्तकालम्, अतः अयमविवेकस्त्याज्यः ॥५॥ पुनः शुद्धताशुद्धताहेतुत्वोपदेशं कथयति१. देहात्-शरीरात् B.1.2., A.D., S.M.,V.2., । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy