SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञानमञ्जरी अर्हद्वाक्याद्यवलम्बनेन साधकत्वस्वगुणोऽपि क्रमकारणं करणाद् अतत्त्वं विकल्पपूर्वकमन्तर्मुहूर्तं यच्चोपादेयत्वेन स्वतत्त्वनिर्धार-भासन-रमणरूपं हेयबुद्ध्या परभावत्यागनिर्धार-भासन-रमणयुक्तं रत्नत्रयीपरिणमनं भवति तद्भेदरत्नत्रयीरूपम्। यच्च सकलविभावहेयतयाप्यवलोकनादिरहितं विचारणस्मृतिध्यानादिमुक्तमेकसमयेनैव सम्पूर्णात्मधर्मनिर्धार-भासनरमणरूपं निर्विकल्पसमाधिमयमभेदरत्नत्रयीस्वरूपम्। उक्तं च ध्यानप्रकाशे जो य वियप्पो चिरकालिओ, सपरोभयावलंबणे होइ । जट्ठि व्व पुरस्स चलणे, निमित्तगाही भवे भेई ॥१॥ एगसमएण नियवत्थुधम्ममि जं गुणतिगं रमइ । परदव्वाणुवओगी निमित्तचाई अभेई सो ॥२॥ ईदृग् अभेदरत्नत्रयीपरिणतेन भेदरत्नत्रयीपरिणामः सप्रयासः ससङ्करः त्यज्यत एव ॥४॥ गुरुत्वं स्वस्य नोदेति, शिक्षासात्म्येन यावता । आत्मतत्त्वप्रकाशेन, तावत्सेव्यो गुरूत्तमः ॥५॥ गुरुत्वमिति-यावता अस्य साधकस्य गुरुत्वं स्वस्य आत्मन एव न उदेति-न जायते, केन ? शिक्षासात्म्येन-स्वयमेव स्वस्य शिक्षादायकः न भवति । पुनः केन ? आत्मतत्त्वप्रकाशेन-आत्मधर्मप्राग्भावेन संशयविपर्ययरहितशुद्धात्मतत्त्वप्रकाशकः यावन्न भवति तावदयं उत्तमःस्वपरोपकारी रत्नत्रयीपरिणतः द्रव्यभावगुरुगुणोपेतः गुरुः तत्त्वकथकः सेव्यः । हे गुरो ! अतीतानन्तकालाप्राप्तं स्वात्मधर्मनिर्धार-भासन-रमणं तत्तवोपदेशाञ्जनेन प्राप्तमात्मानुभवसुखं भुक्तम्, अहो ! गुरूणां कृपा, यया परमामृतास्वादनं भवति । अतः यावद् न पूर्णानन्दः तावत् तव चरणौ शरणम् । उक्तं चः१. साधकस्व० A.D.,V.1., । २. परभावात्याग B.1.2.,A.D., S.M. | ३. ज्ञानादि V.1.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy