SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६०] सेतुबन्धम् [ द्वितीय उदर राभ्यन्तरशैलान्वहन्तम् । कानिव । सुरपतेरिन्द्राड्डिम्बो भयं तेन नि हितानर्पिता निधीनिव । तथा च तद्भिया जलाभ्यन्तरे वर्तमाना मैनाकादयस्त्रासनिखातनिधित्वेनोत्प्रेक्षिता इत्याशयः । अन्योऽपीश्वरत्रासाद्धनानि गर्ते गोपयतीति ध्वनिः । निधिलक्षणमाह-किंभूतान् । पर्याप्तानि पूर्णानि रत्नानि गर्भे येषां तान् । रत्नशिखरत्वात् । एवं नभ एव तरुस्तस्मात्पर्यस्ता इतस्ततो वतिनश्चन्द्रकरा एव प्ररोहा यत्र तान् । एवं गर्तस्था निधयोऽपि पर्याप्तरत्नगर्भा उपरिरोपितचिह्ववृक्षप्ररोहपरिवृता भवन्ति । प्रकृते समुद्रो भूमिस्तदन्तर्गताः पर्वता निधयस्तदुपरि चिह्नवृक्षो गगनं तत्प्ररोहाश्चन्द्रकरा इति भावः । यद्वा असुरादिभिः (सह) सुरपतित्रासनिहितानिधीन्यथा वहति तथा शैलानपीति सहोपमा । विशेषणद्वयं तुल्यम् । वस्तुतस्तूदराभ्यन्तरशैलानिधीन्सुरपति डिम्बनिहितानिव वहन्त मित्यन्वयः । तथा च वस्तुतः पर्वता रत्नगर्भवान्निधय एव । इन्द्रत्रासनिहितत्वं परमुत्प्रेक्षितम् । अन्यत्समानम् । प्ररोहः शिफा। 'तत्र पद्ममहापद्मौ तथा मकरकच्छपौ। मुकुन्दकुन्दौ नीलश्च शङ्खश्चैवाष्टमो निधिः' ॥१६॥ विमला-अपने भीतर समुद्र, पर्याप्त रत्न भीतर रखने वाले पर्वतों को क्या रखता है, मानों इन्द्र के डर से भूमि के अत्यन्त गहरे गर्त में निधियाँ निहित कर दी गयी हैं जिनके ऊपर गगनरूप चिह्नवृक्ष है और उससे निकल कर छिटके हुये चन्द्र कररूप प्ररोह से वे परिवृत्त हैं ।।१९।। चन्द्रोदये स्वभावमाहपरिप्रम्भिअं उवगए बोलीमम्मिन णिअत्तचडुलसहावम् । वजोव्वणे व कामं दइ असमागमसुहम्मि चन्दुज्जोए ॥२०॥ [परिजम्भितमुपगते व्यतिक्रान्ते निवृत्तचटुलस्वभावम् । नवयौवन इव कामं दयितसमागमसुखे चन्द्रोड्योते ॥] चन्द्रोद्दयोत उपगते सति परिजृम्भितं वर्धितम् । व्यतिक्रान्तेऽपगते च सति निवृत्तचाञ्चल्यम् । तरङ्गवृद्धयवृद्धिभ्यामित्यर्थः । चन्द्रोड्योते कीदृशि । परितः प्रीतिविषयो यः समागमस्तेन सुखं यस्मात्तादृ शि। कस्मिन्कमिव । नवयौवने काममिव । यथा कामो नवयौवन' उपगते परिजृम्भते व्यतिक्रान्ते तु निवृत्तचाञ्चल्य-स्वभाव स्तथाऽयमपीत्यर्थः । नवयौवनेऽपि कीदृशि । वल्लभस्य दयितस्य समागमेन सुखं यत्र तादृशि ॥२०॥ विमला-जिस प्रकार प्रिय-समागम से सुख प्राप्त करने वाले नवयौवन के उपगत होने पर काम बढ़ता है और उसके बीत जाने पर चाञ्चल्य स्वभाव को Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy