SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ षड्भाषाचन्द्रिकायां न यण् ॥ १।१।२०॥ संधिरित्यनुवर्तते । 'इको यणचि' इति संस्कृतोक्तः संधिः प्राकृते न भवति । इवर्णादेर्यत्वादिर्न भवतीत्यर्थः । यणिति यवरलानां परिग्रहेपि प्राकृते ऋलवर्णयोः प्रयोगाभावाद्यत्ववत्वयोरेवायं निषेधः ॥ पहावल्ली अरुणो । वहू अवऊढो । प्रभावल्यरुणः । वध्ववगूढः । अत्र प्रभावल्ली अरुणः । वधू अवगूढ इति स्थिते प्रभाशब्दे वधूशब्दे च 'निकषस्फटिकचिकुरे हः' इत्यतो 'हः' इत्यधिकृत्य खघथधभाम् ॥ १।३।२०॥ असंयुक्तानामनादौ वर्तमानानामचः परेषां खादीनां हः स्यात् । इति भकारधकारयोर्हकारः ॥ 'प्रायो लुक्-'इति गूढे गकारलोपः । वलोपस्तु प्रायोग्रहणान्न भवतीति रूपसिद्धिः ॥ एङः॥ १।१ । २१॥ नेत्यनुवर्तते । संधिरिति च । एदोतोः संस्कृतोक्तः संधिः प्राकृते न भवति । लच्छीए आणंदो । रुक्खादो आअओ । देवो अहिणन्दणो । लक्ष्म्या आनन्दः । वृक्षादागतः । देवोभिनन्दनः ॥ अहो अञ्चरिअमित्यादयः संस्कृतवदेव सिद्धाः ॥ शेषेच्यचः॥१।१ । २२ ॥ युक्तस्य लोपे योवशिष्यते स शेषः । तस्मिन्नचि अचः संधिर्न भवति । फणामणिप्पईवा । जोण्हाऊरिअकेसो । फणामणिप्रदीपाः । ज्योत्स्नापूरितकेशः । आद्योदाहरणे 'प्रायो लुक्-' इति दकारलोपे 'पो वः' इति पस्य वत्वे 'लवराम्-'इति रेफलोपे शेषस्य पस्य द्वित्वे च पकारस्थाकारस्य दलोपे शिष्टस्य च संधिर्न भवति । द्वितीयोदाहरणेपि पैकारतकारयोर्लोपे लस्य 'श्नष्णस्वत्स्नहलक्ष्णां ण्हः' इति बहादेशे - - १ रुक्खाओ M. २ M. has हलो after युक्तस्य. ३ M. has परे after तस्मिन्नचि. ४ शिष्टेकारस्य My., P. ५ तकारपकारयो R. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy