SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ संज्ञावतारः । 'सुससोः' इति सूत्रेण विधास्यमानं कार्य सुस्संज्ञासंज्ञितानां त्रयाणां स्यात् । 'कचिदसादेः' इति सूत्रेण विधीयमानं कार्यमस्संज्ञासंज्ञितानां त्रयाणां स्यात् । 'टाससि णः' इति सूत्रेण विधीयमानं कार्य टास्संज्ञासंज्ञितानां त्रयाणां स्यात् । 'डेसो ङम्' इति सूत्रेण विधीयमानं कार्य डेस्संज्ञासंज्ञितानां त्रयाणां स्यात् । 'हिंतोत्तोदोर्दु ङसिस्' इति सूत्रेण विधीयमानं कार्य उसिस्संज्ञासंज्ञितानां त्रयाणां भँवति । 'सो उम्' इत्यत्रैव विहितं कार्य उम्संज्ञासंज्ञितानां त्रयाणां स्यात् । 'डिपोस्' इत्यनेन क्रियमाणं कार्य डिप्संज्ञासंज्ञितानां त्रयाणां भवेति । इत्यादि संचारणीयम् ॥ हो इस्वः ॥१।१।५॥ यो इखः स हसंज्ञः स्यात् । तथा च 'हश्चौत्कुतूहले' इत्यादौ हशब्देन इवज्ञानं फलति ॥ दि दीर्घः ॥ १।१।६॥ यो दीर्घः स दिसंज्ञः स्यात् । तेन 'दिर्दोत्तोदुङसौ' इत्यादौ दिशब्देन दीर्घबुद्धिर्भवति ॥ सः समासः ॥ १।१ । ७॥ यः समासः स ससंज्ञः स्यात् । तेन ‘वा से' इत्यादौ स इत्यनेन समासबोधः सिध्यति॥ शषसाः शुः ॥ १।१।८॥ एते त्रयः शुसंज्ञाः स्युः । तथा च 'शोः सल्' इत्यादौ शुशब्देन त्रयाणां स्वीकारः॥ आदिः खुः॥१।१।९॥ १ शास्त्रेण My., P. २ विधास्यमानं M. ३ क्रियमाणं R. ४ विधास्यमानं M. ५ भवति M. ६ दोरुजस् M. ७ विधास्यमानं M. ८ स्यात् My., P. ९ स्यात् My., P. १० हश्चात्कु M. ११ एवं च M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy