SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २१० षड्भाषाचन्द्रिकायां प्रसरतेः उवेल्ल वअल्ल इत्यादेशौ भवतः । उवेल्लइ । वअल्लइ । पक्षे । पसरइ ॥ महमहो गन्धे ॥३।१।११॥ गन्धः प्रसरतीत्यर्थे प्रसरतेर्महमह इत्यादेशो भवति । महमहइ माळईगंधो । प्रसरति मालतीगन्धः । 'गन्धे' इति किम् । पसरइ ॥ झरझारसुमरविम्हरभरभललढपअरपम्हुहाः सरते: ॥३।१। १२ ॥ स्मृ आध्यान इत्यस्य धातोः झर झार सुमर विम्हर भर भल लढ पअर पम्हुह इति नवादेशा भवन्ति । झरइ । झारइ । एवमन्येपि । पक्षे । म्हरइ । सरइ । उभयत्रारः ॥ व्यामेराअड्डः ॥३।१।१३ ॥ व्याप्रियतेराअड्डादेशो भवति । आअड्डइ । पक्षे । वाविरइ ॥ निस्सुनिहरनिलदाढवरहाढाः ॥३।१ । १४ ।। निःसरतेनिहर निल दाढ वरहाढ इति चत्वार आदेशा वा स्युः । निहरइ । निलइ । इत्यादि । पक्षे । णिसरइ ॥ जागुर्जग्गः ॥३।१।१५॥ जाँगर्तेर्जग्ग इत्यादेशो भवति । जग्गइ । पक्षे । जागरइ ॥ पट्टघोट्टडल्लपिञ्जाः पिबेः ॥३।१।१६ ॥ पिबतेर्धातोः पट्ट घोट्ट डल्ल पिज्ज इति चत्वार आदेशा वा स्युः । पट्टइ । एवमन्येपि । पक्षे । पिबइ ॥ धुवो धूजः ॥३।१।१७॥ १ इति तु स्तः T. २ P. and My. drop उभयत्रारः ३ My. and P. drop Sutras ३ । १ । १३ and ३।१। १४ and their com. mentaries. ४ निःपूर्वस्य सरतेः T. ५ चत्वारः स्युः T. ६ जागृ निद्राक्षय इत्यस्य T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy