SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उपसर्गहरस्तोत्रस्य समीक्षणम् अस्मिन् ग्रन्थे प्रकाशितस्य प्राकृतभाषानिवद्धस्य स्तोत्रस्य वेषये क्रियतेऽयं प्रस्तावः । एतत्स्तोत्रस्य कर्तारः श्रीभद्रबाहुवामिन इति निर्विवादम्, किन्तु किमिमे चतुर्दशपूर्वधराः प्रीस्थूलभद्रगुरुरूपेण विख्याता आहोस्विद् दशनियुक्ति पर्युणाकल्प-भद्रबाहुसंहिता-नवग्रहस्तोत्र-द्वादशभावजन्मप्रदीप-वसुदेवहिण्डीप्रणेतृरूपेण प्रसिद्धा इति प्रश्नोत्तरं विवादास्पदं साम्प्रतिकपण्डितानाम् । कलिकालसर्वज्ञश्रीहेमचन्द्रमूरिवरविर चेते परिशिष्टपर्वणि श्रीभद्रबाहुस्वामिवृत्तान्तो वर्वति, परन्तु तत्र कस्यचिद् ग्रन्थस्य गुम्फितार इमे इति स्वरूपात्मक उल्लेखो नास्ति, अतः समुपतिष्ठति संशीतिः । एवं सति संम्व्यते न्यायतीर्थ-व्याकरणतीर्थपण्डितबेचरदासैयदुत श्रीउपसर्गहरस्तोत्रकारोऽपूर्वब्रह्मचारिश्रीस्थूलभद्रानां गुरुभ्यो भिन्नाः। १ समीक्ष्यतां श्रीदेवचन्द्रसूरिकृतस्य शान्तिनाथचरित्रस्य प्रारम्भिकोऽयमुल्लेखः- "वंदामि भद्दबाहुं जेण य अइरसियं बहुकहाकलियं । रइयं सवायलक्खं चरियं वसुदेवरायस्स ॥" अपरञ्च 'श्रीहंसविजयजीजैनलायब्रेरी 'ग्रन्थमालायां प्रसिद्धिं नीतायाः श्रीनर्मदासुन्दरीकथाप्रान्ते प्रोक्तं च"इति हरिपितृहिण्डेर्भद्रबाहुप्रणीते-विरचितमिह लोकश्रोत्रपात्रैकोयम् ।। चरितममलमेतन्नर्मदासुन्दरीयं, भवतु शिवनिवासनापकं भक्तिभाजाम्॥२४६॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy