SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ १ शतकम् ] संस्कृतगाथासप्तशती। [दुर्गतकुटुम्बाकृष्टिः कथं नु मया धौतेन सोढव्या । दशापसरत्सलिलेन पश्यत रुदितमिव पटकेन ॥] दुर्गतकुटुम्बकृष्टिौतेन मया कथं नु सोढव्या। इति पश्य दशाऽपसरत्सलिलेन पटेन रुदितमिव ॥१८॥ इयत्कालमहं दरिद्रकुटुम्बकृतमाकर्षणं सोढवानस्मि, परं धौतेन मया जलसम्बन्धात्स्तिमिततन्तुतया जीर्णताधिक्ये, आकर्षणं कथं सोढव्यमिति शङ्कया खेदात् दशाभ्यः प्रान्तेभ्योऽपसरत्सलिलेन पटेन रुदितमिव । अर्थाद्वलादाकर्षणवशादचेतनोपि पटः प्रान्तगलज्जलधाराच्छलेन रोदिति, ततो विदग्धोयं मत्कान्तो बहुमहिलाच्छन्दानुवृत्त्या कथं न खिन्नः स्यादिति ध्वन्यते । यद्वा कापि वेश्या धनदानं विना बहूनां ग्रामप्रधानानामाकर्षणजन्यमुद्वेगं कुट्टनी प्रति सूचयितुमित्थं कथयति । वास्तवे तु सप्तशत्यां हालेन संगृहीतान्येवमादीनि नीतिसूक्तिरत्नानि 'अमृतं प्राकृतकाव्यम्' इत्यादिपद्ये प्राकृतकाव्यस्य कामशास्त्ररहस्यप्रतिपादकत्वप्रतिज्ञाबलादेव टीकाकारैर्बलाच्छृङ्गारपरतया व्याख्यातानि । परं प्राकृते शृङ्गारेतरप्रतिपादकं पद्यमेव नास्तीति नैतत्तात्पर्यम् । यत्किमप्यस्तु । प्राचामनुरोधादनिच्छ्यापि मयापि शृङ्गारपरतयैव व्याख्यातानीत्यलं मार्मिकेषु। कोप्यात्मनः परवशतामनुरागातिशयं च नायिका प्रति प्रकाशयितुं नायिकागृहगामिनं वत्समन्याऽपदेशेनाह कोसॅम्बकिसलअवण्णअ तण्णअ उण्णामिएहि कण्णेहिं । हिअअहिअं घरं वच्चमाण धवलत्तणं पाव ॥ १९ ॥ [कोशाम्रकिसलयवर्ण तर्णक उन्नामिताभ्यां कर्णाभ्याम् । ___ हृदयस्थितं गृहं ब्रजन्धवलत्वं प्रामुहि ॥] उन्नामितश्रवोभ्यां तर्णक कोशाम्रकिसलयसवर्ण । हृदयस्थितं व्रजन्गृहमवामुहि त्वं नु धवलत्वम् ॥ १९॥ उत्कण्ठावशादुन्नामिताभ्यां कर्णाभ्यामुपलक्षित! बीजकोषान्निःसृताम्रकिसलयसवर्ण ! रक्तमसृणेति यावत् । एवंविध हे तर्णक ! हृदयानुचिन्तितं गृहं व्रजन् धवलत्वं षण्ढत्वं श्रेष्ठतां वा प्राप्नुहि । अहमिव हृदयाऽनुध्यातगृहप्रवेशे पराधीनवृत्तिा भूया इति भावः । अथवा यां वृद्धां कामयसे तस्याः कृते त्वं तर्णक इवेति कयाचिदाक्रुष्टया कञ्चित्प्रत्युच्यते। शय्यामनागच्छन्तीं प्रियतमां प्रतीक्ष्य तद्भावजिज्ञासाथ मध्येशय्यं कृत्रिमनिद्रानिमीलिताक्षमत एव कपोलचुम्बनपुलकिताङ्गत्वेन विदितमिथ्यावापं कान्तं कान्ताऽऽह अलिअपसुत्तअविणिमीलिअच्छ दे सुहअ मज्झ ओआसम् । गण्डपरिउम्बणापुलइअङ्ग ण पुणो चिराइस्सम् ।। २०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy