SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ २९ भूमिका । सालक्तकेन नवपल्लवकोमलेन पादेन नूपुरवता मदनालसेन । यस्ताड्यते दयितया प्रणयापराधात्सोऽङ्गीकृतो भगवता मकरध्वजेन ।। एतदनन्तरम् , उत्तरोत्तरमतिशयप्रदर्शनं सूचयता गोवर्द्धनाचार्येण तु चरणप्रहारस्यापि चरमसीमा समाक्रान्ता । एष हि नायकमुखाद्भाषयति-त्वं कियतोपि चरणप्रहारान्कुरु, न मे प्रहारेभ्यो भयम् । अहं ताडयन्त्यास्ते न किञ्चिदपि दूरमपसरिष्यामि' कुपितां चरणप्रहरणभयेन मुञ्चामि न खलु चण्डि त्वाम् । अलिरनिलचपलकिसलयताडनसहनो लतां भजते ॥ १८४ ।। अमरुकेण 'प्रणयापराधादि'पदैः स प्रहारः प्रणयरसेन किञ्चिदार्दीकृतोपि । परम् आयोकारेण तु-'शुष्कः पादप्रहारः' सोपि शिरसि, स चापि वारंवारेणोपनिबद्धः शिरसि चरणप्रहारं प्रदाय निःसार्यतां स ते तदपि । चक्राङ्कितो भुजङ्गः कालिय इव सुमुखि कालिन्द्याः॥१७०॥ गहिन्या चिकुरग्रहसमयससीत्कारमीलितदृशापि । बालाकपोलपुलकं विलोक्य निहतोस्मि शिरसि पदा ॥२१६ ॥ यन्निहितां शेखरयसि मालां सा यातु शठ भवन्तमिति ।। प्रहरन्ती शिरसि पदा स्मरासि तां गर्वगुरुकोपाम् ॥ ४७०॥ अयं प्रसादो न यस्य कस्यचिद्भाग्ये भवतीत्याह सबहुमानम्कान्तः पदेन हत इति सरलामपराध्य किं प्रसादयथ। सोऽप्येवमेव सुलभः पदप्रहारः प्रसादः किम् ॥ १८० ॥ गोवर्द्धनचित्रितस्य नायकस्य ताडने तादृशी प्रबला रुचिर्यकौतुकात् स कान्तायै धार्मिकशिक्षामपि न ददाति यत् 'पतिः स्त्रीणां पूज्यो भवति' इति । अन्यथा शिरसि लत्ताप्रहारप्रसादः कथमुपलभ्येत । आह सः आक्षेपचरणलङ्घनकेशग्रहकेलिकुतुकतरलेन । स्त्रीणां पतिरपि गुरुरिति धर्म न श्राविता सुतनुः ॥ ८७ ॥ भाग्यवशान्नायिकैव खभावेन शीतला, अन्यथा शीतलायास्तस्या वाहनीभूतो नायकदेवस्तु ताडनसहने जन्मतः सिद्धः । दृश्यताम् आशाकरश्च ताडनपरिभवसहनश्च सत्यमहमस्याः। न तु शीलशीतलेयं प्रियेतरद्वक्तुमपि वेद ॥ १०३ ॥ गोवर्द्धनाचार्यचित्रितस्य नायकस्य ताडनेन तृप्तिरेव न भवतीति प्रतीयते--- करचरणेन प्रहरति यथा यथाङ्गेषु कोपतरलाक्षी। रोषयति परुषवचनैस्तथा तथा प्रेयसी रसिकः ॥१८८॥ पूर्व कराभ्यां, ततस्तयोः श्रान्तयोः चरणाभ्यां प्रहार आरब्धो भवति । सोपिच नैकत्र किन्तु 'अङ्गेषु' । मन्ये सेयं नायकदेवस्य सर्वाङ्गपूजा ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy