SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ७ शतकम् ] संस्कृतगाथासप्तशती। सरए सरम्मि पहिआ जलाई कन्दोदृसुरहिगन्धाई। धवलच्छाइँ सअह्ना पिअन्ति दइआण व मुहाई ॥ २२ ॥ [शरदि सरसि पथिका जलानि नीलोत्पलसुरभिगन्धीनि । धवलाच्छानि सतृष्णाः पिबन्ति दयितानामिव मुखानि ॥] शरदि सरसीह पथिका जलानि नीलालसुरभिगन्धीनि । धवलाच्छानि सतृष्णाः पिबन्ति दयितामुखानीव ॥ २२ ॥ इह सरसि । 'कन्दोर्ट' नीलोत्पलम् । तत्संपर्काद् प्राणतर्पणगन्धानि, धवलानि च तानि खच्छानि च जलानि । सतृष्णाः सपिपासाः पथिकाः । नीलाब्जवत् सुरभिगन्धीनि, 'धवलाच्छाइँ' धवलाक्षाणि (धवलनयनानि) दयितानां मुखानीव सतृष्णाः सलालसाः पिबन्ति । दयितामुखसमानगुणानि जलानि पिबन्तः पथिकाः प्रवासे सुदुर्लभं दयितामुखपानमध्यस्यन्ति, अत एव तेषां तत्समये सतृष्णता ( साभिलाषता) भवतीति भावः। कर्दमभयानायिकां नाभिसरन्तं नायकं प्रति मार्गस्य सुलभतां प्रतिपादयन्ती दूती तत्प्ररोचनाय नायिकायाः प्रणयातिशयं व्यङ्ग्यविधया प्राह अब्भन्तरसरसाओ उवरि पवाअबद्धपङ्काओ। चङ्कम्मन्तम्मि जणे समुस्ससन्ति व रच्छाओ ॥ २३॥ [अभ्यन्तरसरसा उपरि प्रवातबद्धपङ्काः । चङ्कममाणे जने समुच्छ्रसन्तीव रथ्याः॥] अप्यभ्यन्तरसरसाः प्रवातपरिवद्धकर्दमा उपरि । चक्रममाणे लोके समुच्चसन्तीव किल रथ्याः॥२३॥ अभ्यन्तरे सरसा अपि, उपरि प्रवातेन प्रकृष्टवातेन परितो बद्धो दृढघनीभूतः कर्दमो यासु ताः रथ्याः । लोके जने यातायातं कुर्वति सति समुच्चसन्तीव । अन्तराईत्वेपि उपरितः प्रवातेन विशुष्कबद्धपङ्कासु रथ्यासु लोकानां पदभारैरेकत्र निष्पीडिता→भूभागतया अपरत्रोद्भिन्नेषु रन्ध्रेषु य ऊष्मा निस्सरति तत्रोच्छासस्योत्प्रेक्षा । अत्र समासोक्तिविधया 'प्रवातप्रायगुरुजनभयेनोपरि रूक्षत्वेपि अभ्यन्तरे सानुरागा मे खामिनी भवदर्थमुत्कण्ठिता आह्वानाय मां संप्रेष्य साम्प्रतमुच्छ्रसिति, किमित्येनामविलम्बितं नोपगच्छसि' इति नायकं प्रत्यभिव्यज्यते । 'चक्रममाणे' इति प्राक्तनटीकाकृ. तामनुरोधादेव । अनुपसर्गादपि यङ्लुगन्तात्क्रमेरात्मनेपदे विचार एव। पिष्टककणावकीर्णो कस्याश्चित्कुचौ कामयमानः कश्चित्कामुकः सहचरं प्रति सकौतु. कमेवं वर्णयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy