SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३०२ काव्यमाला। नवयुवत्या व्याधस्त्रियाः स्तनोद्गमं साभिलाषं वर्णयन्कश्चित्सहचरमाह मज्झो पिओ कुअण्डो पल्लिजुआणा सवत्तीओ। जह जह वड्डन्ति थणा तह तह छिजन्ति पञ्च वाहीए ॥१७॥ [मध्यः प्रियः कुटुम्बं पल्लीयुवानः सपत्यः । यथा यथा वर्धते स्तनौ तथा तथा क्षीयन्ते पञ्च व्याध्याः ॥] मध्यः प्रियः कुटुम्बं पल्लीयुवकाः सपत्त्यश्च । क्षीयन्ते पञ्च तथा, व्याधगृहिण्याः स्तनौ यथैधेते ॥ ९७ ॥ व्याधगृहिण्याः खनौ यथा यथा वृद्धिं गच्छतस्तथा तथा मध्यः कटिः (यौवनविकासात् )क्षीयते । प्रियः (यौवनोद्दीप्तकामतया सततसुरतदौर्बल्यात् ) क्षीयते। कुटुम्बं गृहकर्तुळधस्य नवयौवनायामस्यामासक्ततया अप्रत्यवेक्षणात् क्षीयते । तस्याः पहयाः (भिल्लावासस्य) युवकाः तदुत्कण्ठया क्षीयन्ते । सपन्यस्तु ईय॑या किंवा नवयौवनायामस्यामासक्ततया पतिकृतप्रणयाभावात् क्षीयन्ते । नवयौवनायामपि गृहिणीपदेननवयौवनवशात्तथासकोस्याः प्रियतमो यथा गृहकर्तृत्वं प्रायस्तस्यामेव तिष्ठतीति स्तनोत्कर्षातिशयो ध्वन्यते। ____ 'अयं हि मालिनीकुचमालूरावलोकनलालसयैव भ्रमति, नास्य कार्यमन्यदिति निजस्य पराभिप्रायवेदनवैदग्ध्यं सूचयनागरिकः कश्चित्सहृदयमाह मालारीए वेल्लहलबाहुमूलावलोअणसअहो । अलिअंपि भमइ कुसुमग्घपुच्छिरो पंसुलजुआणो ॥९८॥ [मालाकार्याः सुन्दरबाहुमूलावलोकनसतृष्णः। ___ अलीकमपि भ्रमति कुसुमाघप्रश्नशीलः पांसुलयुवा ॥] मालाकार्याः सुन्दरभुजमूलविलोकने सतृष्णोयम् । पांसुलयुवा ह्यलीकं कुसुमार्घविपृच्छको भ्रमति ॥ ९८ ॥ पांसुलः परस्त्रीलम्पटः। कुसुमाघस्य कुसुममूल्यस्य पृच्छकः सन् अलीकं भ्रमति । वेल्लहल इति सुन्दरार्थवाचको देशी। 'यो यदभिलाषुकः स छलेनापि खकार्यं साधयतीति निदर्शयन्कोपि सहचरमाह' इति गङ्गाधरः। पूर्वसंजातसुरतसंकेतस्थानादिकं विस्मृतवन्तं 'कस्तेहम् ?' इति वदन्तं नायकं कापि सोपालम्भमाह अकअण्णुअ घणवण्णं घणवण्णन्तरिअतरणिअरणिअरम् । जइ रे रे वाणीरं रेवाणीरं पि णो भरसि ॥ ९९ ॥ [भकृतज्ञ घनवर्ण घनपर्णान्तरिततरणिकरनिकरम् । यदि रे रे वानीरं रेवानीरमपि न सरसि ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy