SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भूमिका । आर्या तु लग्नबडिशतया सूत्र संबद्धं कर्कटमिव तं वर्णयामास - निजसूक्ष्मसूत्रलम्बी विलोचनं तरुण ते क्षणं हरतु । अयमुद्गृहीतबडिशः कर्कट इव मर्कटः पुरतः ॥ ३२२ ॥ अतिसूक्ष्मे जालसूत्रेऽवलम्बितस्य संकोचितबहुचरणस्य मर्कटस्य दुर्लक्ष्यसूत्रप्रोतेन सूक्ष्मबहुपत्रिकेण बकुलकुसुमेन साम्यं स्वाभाविकमाहोस्वित्-दृश्यसूत्रेण स्थूलाकारेण कर्कटेनेति सहृदया एव तारतम्यं परीक्षन्ताम् | कदाचन कूपानुप्रासी भूप इव शब्दसाम्यादेव 'कर्कट इव मर्कट' इत्यवपातितो भवेत् ! प्रोषितभर्तृकया प्रथमे दिनार्थ एव 'अद्य गतः अद्य गतः' इति बहुदिवसानुभवनीयदुःखमनुभवन्त्या दिनगणनारेखाभिर्भित्तिश्वित्रितेत्याह गाथा - अद्य गतोऽद्य गतो बत सोऽद्य गतश्चेति गणयन्त्या । प्रथमे दिनार्द्ध एव हि रेखाभिश्चित्रितं कुड्यम् ॥ ३३८ आर्या तु रेखाभिश्चित्रितां भित्तिं गण्डस्थली मिवाह त्वद्गमन दिवस गणनावलक्षरेखाभिरङ्किता सुभग । गण्डस्थली तस्याः पाण्डुरिता भवनभित्तिरपि ॥ ६२० ॥ सुन्दरैर्बहुभिर्युवकैः संकुलेपि नगरे त्वां विमार्गन्ती तस्या दृष्टिर्वन इत्र भ्रमति । त्वामेव सा सर्वत्र पश्यति । त्वत्तोऽन्यत्र दृष्टिरेव न पतति । अत एव त्वद्विरहितं पुरं तस्याः कृते वनमिवेत्याह गाथा - आर्याप्याह यूनः कण्टकविटपानिवाञ्चलग्राहिणस्त्यजन्ती सा । वन इव पुरेपि विचरति पुरुषं त्वामेव जानन्ती ॥ ४६० ॥ २१ 'सावन इव पुरे भ्रमति' - ' तस्या दृष्टिर्वन इव पुरे भ्रमती'ति च द्वयोस्तारतम्यं मार्मिकैरेव वेद्यम् । कुलजनायिकाया निशि मदनकेलौ प्रागल्भ्यम्, दिने विनयभाव चाह गाथा आज्ञाशतानि ददती तथा रते हर्षविकसितकपोला । प्रातस्त्ववनतवदना न श्रद्दध्मः प्रियां सेति ॥ १।२३ आर्याप्याह विनयावनता दिनेसौ निशि मदनकलाविलासलसदङ्गी । निर्वाणज्वलितौषधिरिव निपुणप्रत्यभिज्ञेया ॥ ५९३ ॥ आयुधव्रणकर्कशे ग्रामनायकस्य वक्षसि तज्जाया कृच्छ्रं खपिति, तदक्षिता ग्रामसंपत्तिस्तु निर्भयं शेते इत्याह गाथा - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy