SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ २८८ काव्यमाला । शालिः नीहारैः तुषारव्याजेन रोदितीव । अचेतनः शालिरपि परिणामे खलसङ्गेन रोदिति तर्हि अनुरक्तहृदयायास्तव तु का दशा स्यादितिं परिहर तत्सङ्गम् , अनुरज्यख मादृशे प्रणयिनि इति शृण्वती नायिका प्रति ध्वन्यते। 'प्रातरेवाहं संकेतस्थानं शालिक्षेत्रं गता, त्वं तु न गत इति जारं श्रावयन्ती नीहाराभिसारिका शालेरपि खलसंयोगादुद्वेगमाह' इति गङ्गाधरः। त्वया निद्भुतमपि दयितसमागमचिढं मया परिज्ञातमेवेति कांचिन्नववधूं श्रावयितुं सव्यपदेशं प्रदोषं वर्णयन्नागरिकः सहचरमाह संझाराओत्थइओ दीसइ गअणम्मि पडिवआचन्दो । रत्तदुऊलन्तरिओ थणणहलेहो व णववहुए ॥ ६९ ॥ [संध्यारागावस्थगितो दृश्यते गगने प्रतिपचन्द्रः। रक्तदुकूलान्तरितः स्तननखलेख इव नववध्वाः ॥] सन्ध्यारागस्थगितः प्रतिपञ्चन्द्रो हि दृश्यते गगने । रक्तदुकूलान्तरिता स्तननखलेखेव नववध्वाः ॥ ६९ ॥ सन्ध्यारागेण किञ्चिदन्तरितः प्रतिपत्तिथेश्चन्द्रः, रक्तदुकूलेनान्तरिता नववध्वाः स्तनगतनखलेखेव गगने दृश्यते । नववधूपदेन लज्जावशात्तस्या गोपनं सूच्यते । 'अभिसारस्थानगमनाय प्रदोषाभिसारिकां त्वरयन्ती दूती प्रदोषवर्णनमाह' इति गङ्गाधरः। अर्धचन्द्रावलोकनकुतूहलाद् गगनतलमालोकयन्तं देवरं कापि सपरिहासमाह अइ दिअर किं ण पेच्छसि आआसं किं मुहा पलोएसि । जाआइ बाहुमूलम्मि अद्धअन्दाण परिवाडिम् ॥ ७० ॥ [अयि देवर किं न प्रेक्षसे आकाशं किं मुधा प्रलोकयसि । ___ जायाया बाहुमूलेऽर्धचन्द्राणां परिपाटीम् ॥] किमयि न देवर पश्यसि किं वाकाशं मुधा प्रलोकयसि । जायाया भुजमूले परिपाटीमर्धचन्द्राणाम् ॥ ७० ॥ अयि देवर जायाया भुजमूले अर्धचन्द्राणाम् (नखक्षतजनितानाम् ) परिपाटी परम्परां किं न पश्यसीति योजना । वैदग्ध्येन गोपनीयोपि ते प्रियतमासमागमः स्फुटमेवं प्रकाशीभवतीति देवरं प्रति परिहासः। स्त्रियाः परिहासे उदाहृता सेयं गाथा स० कण्ठाभरणे (५ परि०)। प्रियतमं प्रति मत्संदेश्यमेवं वक्तव्यमिति प्रियसमीपगामिनं पान्थं प्रति प्रोषितभर्तृका काचिदाह वाआइ किं भणिजउ केत्तिअमेत्तं व लिक्खए लेहे । तुह विरहे जं दुक्खं तस्स तुमं चेअ गहिअत्थो ॥ ७१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy