SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ६ शतकम् ] संस्कृतगाथासप्तशती। २७३ वानिति पूर्वापरविरुद्धः संदर्भः । 'त्रपुसी जीर्ण कुब्जकमारोहति' इति वाक्येन स्पष्ट नवयौवनाया जीर्णन सह कामविकारः प्रतीयत इति सुधीभिर्विमृश्यम् । प्रियतमेन साकं पूर्व मधूत्सवसुखमनुभूतवती काचित्प्रियविरहे तस्यैवोत्सवस्य खरूपं वयस्यां प्रत्येवमाह उप्पहपहाविहजणो पविजिम्हिअकलअलो पहअतूरो । अब्बो सो चेअ छणो तेण विणा गामडाहो व ॥ ३५॥ [उत्पथप्रधावितजनः प्रविज़म्भितकलकलः महततूर्यः। दुःखं स एव क्षणस्तेन विना ग्रामदाह इव ॥] उत्पथधावितमनुजः प्रविजृम्भितकलकलः प्रहततूर्यः। हंहो क्षणः स एव हि तेन विना ग्रामदाह इव ॥ ३५॥ उत्सवप्रमत्ततया वह्निभयाच्च उत्पथेन धाविता जना यस्मिन् । उत्सवकालिकगानादिना रक्षार्थमार्तनादेन च प्रविजृम्भितः कलकलो यस्मिन् । गानसहकाराय वह्निनिर्वापणार्थ दूरस्थजनाह्वानाय च प्रहतः तूर्यो यस्मिन् , ईदृशः क्षणो मधूत्सवः ( साम्प्रतिको होलामहोत्सवः) तेन विना ग्रामदाह इव प्रतीयते । हंहो इति दुःखाभिनये । स एवेत्यनेनतद्विरहे सुखकरमपि सकलं दुःखजनकमभवत्, हंहो दुःखम् ! इति दैवपरिवृत्तिः सूच्यते । 'ग्रामदाह'कीर्तनेन-सकलेपि ग्रामे अशान्तिरिव प्रतीयत इति नायिकाया. स्तन्मयता ध्वन्यते । होलिकादहनोत्सवे उत्सवमत्तानां जनानां ढकासहकारिगीतिकलकलमुखरो निर्मर्यादः सोयमानन्दोत्सवो ग्रामदाहे जातो विस्वरकोलाहलायितो नायिकायाः प्रतीतोभवदित्याशयः । खलसमागमं वारयन्ती काचित्सखीमाह उल्लावन्तेण ण होइ कस्स पासहिएण ठड्डेण । सङ्का मसाणपाअवलम्बिअचोरेण व खलेण ॥ ३६॥ [उल्लापयमानेन न भवति कस्य पार्थस्थितेन स्तब्धेन । ___ शङ्का श्मशानपादपलम्बितचोरेणेव खलेन ॥] नोल्लापयमानेन स्तब्धेन च पार्श्वगेन कस्य स्यात् ? । शङ्का खलेन पितृवनतरुलम्बितचोरकेणेव ॥३६॥ . न उल्लापयमानेनेतिच्छेदः । उल्लापयमानेन स्वार्थाय वञ्चनार्थ भाषमाणेन अहंकारात् स्तब्धेन पार्श्वस्थितेन खलेन, श्मशानपादपलम्बितेन कुत्सितेन चोरेणेव, चोरादिति यावत् । कस्य शङ्का न स्यात्, अपि तु सर्वस्य स्यात् । चौरोपि उल्लापयमानः द्रावयन् (अभिभवन् ) प्राकृतानुसारं 'पासहिः ' पाशस्थितः प्राणदण्डार्थ वृक्षेऽवलम्ब्य दत्तगलाशः, प्राणवायुनिर्गमोत्तरं स्तब्धश्च भवति । हेतौ तृतीया । अत एव भययोगा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy