SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ संस्कृतगाथासप्तशती । [ तव विरहोजागरकः स्वमेऽपि न ददाति दर्शनसुखानि । areपेण यदालोकन विनोदनं तस्था हतं तदपि ॥ ] तव विरहोजागरकः स्वप्नेपि ददाति दर्शनसुखं नो । बाप्पेण यदवलोकनविनोदनं तदपि बत हतं तस्याः ५ शतकम् ] विरहवा जागरणं खनेपि तत्र दर्शनसुखं न ददाति । मार्गे गच्छतस्तव, गृहपृष्ठादितो यदवलोकनरूपं विनोदनं तदपि चिन्तौत्कण्ठ्यजनितेन बाष्पेण तस्या विहतम् । विनोदनपदेन - संप्रति विरहस्यैतावती विषमा वेदना यत्तस्यां त्वदवलोकनमेव विनोदनं नान्यः कश्चित्प्रतीकार इत्युत्कण्ठातिशयः सूच्यते । ' कलहान्तरिताया विरहदुःखं प्रतिपादयन्ती दूती नायकमाह' इति गङ्गाधरः । एतावच्चिरं यदि मानस्थितिः साधीयसी तर्हि सम्यगेवेदम् । २५१ कुपितं दयितं किमिति न प्रसादयसीति वदन्तीं वयस्यां प्रति काचित्साकूतमाहअण्णावराहकुविओ जहतह कालेण गम्मइ पसाअम् । सत्तणाव हे कुविअं कहँ तं पसाइस्सम् ॥ ८८ ॥ [ अन्यापराधकुपितो यथातथा कालेन गच्छति प्रसादम् । द्वेष्यत्वापराधे कुपितं कथं तं प्रसादयिष्यामि ॥ ] अन्यापराध कुपितः प्रसादमयते यथा तथा समयात् । तं द्वेष्यतापराधे प्रसादयिष्ये कथं कुपितम् ॥ ८८ ॥ [ दृश्यसे प्रियाणि जल्पसि सद्भावः सुभग एतावानेव । पाटयित्वा हृदयं कथय को दर्शयति कस्य ॥ ] 11 617 अन्यः आज्ञोल्लङ्घनादिरूपो योऽपराधस्तेन कुपितः यथाकथंचित् समयान्तरे प्रसादं गच्छति । द्वेष्यता साहजिको द्वेषस्तद्रूपेण ममापराधेन कुपितं तु तं कथं प्रसादयिष्यामि ? अहं तस्य सहजमेष द्वेष्यास्मि, एवमवस्थायां कथंकारमेनं प्रसादयिष्यामीत्यर्थः । 'अनुरक्तं कान्तं कापि सोपालम्भमाह' इति गङ्गाधरावतरणं तु विचारणीयमेव । अनुरकस्य तस्य कोपद्वेषयोरसमन्वयात् । कान्तं प्रत्येवोक्तौ तमिति परोक्षार्थस्यासंबन्धाच्च । बाह्योपचारचातुर्येण अन्यनायिकासक्ति गोपयन्तं कान्तं प्रति काचित्सोपालम्भमाहदीससि पण जम्पसि सन्भावो सुहअ एत्तिअ बेअ । फाइऊण हिअअं साहस को दावए कस्स ॥ ८९ ॥ दृश्यस इह मधु जल्पसि सद्भावः सुभग पुनरियानेव । हृदयं हि पाटयित्वा कः कस्मै कथय दर्शयति ॥ ८९ ॥ Jain Education International इह दृश्यसे अस्मभ्यं दर्शनं ददासि प्रियं जल्पसि, एतावानेव तु स्नेहः । दृश्यसे इत्यनेन - प्रयोजनै कमित्रस्य ते दर्शनदानमपि महानुपकार इत्याक्षेपः, केवलं दर्शनमात्रं For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy