SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ५ शतकम् ] संस्कृतगाथासप्तशती । वर्णवशिते ! त्वया न स संभावित इह विकत्थसे सत्यम् । न भवन्ति वीक्षितेऽस्मिन् स्वस्थावस्थानि चाङ्गानि ॥ ७८ ॥ वर्णो गुणवर्णनं तन्मात्रेण वशीकृते ! इति संबोधनम् । 'वर्णो द्विजादिशुक्ला दियशोगुणकथादिषु' इति मेदिनी । त्वया सत्यमेव स नायको न संभावितो न दृष्टः । केवलं विकत्थसे, 'मया दृष्टः सः' इत्यात्मश्लाघां कुरुषे । अत्रोपपत्तिमाह-अस्मिन्नायके वीक्षिते सति वीक्षितुः अङ्गानि स्वस्थावस्थानि न भवन्ति, किन्तु वेदकम्परोमाञ्चजृम्भाङ्गभङ्गादिभावाकुलानि भवन्ति । यदि त्वं तमद्रक्ष्यस्तर्हि नैवं स्वस्थतया स्थातुमशक्ष्य इति तत्सौन्दर्यमहिमा सूच्यते । दृष्ट इत्यर्थे संभावित इत्युक्त्या 'तादृशगुणशाली दर्शनमा - त्रेण तु सोऽवश्यं सत्कर्तव्य आसीत्' इति नायकस्य गुणातिशयो ध्वन्यते । 'स तथा सौन्दर्यशाली यथा त्वं तद्वर्णनमात्रेण वशीभूता जाता, एवं च निसर्गसुन्दरस्त्वरितमेव सोऽनुसर्तव्यः' इति नायिकां प्रत्यभिव्यज्यते । रतिकौशलवशीकृतोऽहं न त्वां कदाचिदपि हृदयादवधीरयितुं पारयेयमिति चाटूनि कुर्वन्तं नायकं प्रति पुंसां खार्थप्रवणतां प्रमाणयन्ती काचिन्निदर्शनविधयाहआसण्णविआहदिणे अहिणववहुसंगमस्सुअमणस्स । पढमघरिणीअ सुरअं वरस्स हिअए ण संठाइ ॥ ७९ ॥ [ आसनविवाहदिने अभिनववधूसंगमोत्सुकमनसः । प्रथम गृहिण्याः सुरतं वरस्य हृदये न संतिष्ठते ॥ ] आसन्नविवाहदिनेऽभिनववधूसंगमोत्कचित्तस्य । प्रथम गृहिण्याः सुरतं वरस्य संतिष्ठते न हृदि ॥ ७२ ॥ २४७ विवाहदिने आसने सत्येव । नववधूसंगमायोत्कण्ठितचित्तस्य वरस्य हृदि न संति-ष्टते । अभिनवप्राप्तेराशामात्रेणैव बहुकालमनुभूतमपि सुखं पुरुषैर्विस्मर्यते, किं पुनस्तप्राप्ती सत्यामित्युपालम्मो ध्वन्यते । पूर्वत्र 'वधू' पदेन, उत्तरत्र 'गृहिणी' पदेन च'अपरिचितशीलाया नववध्वाः सुखाशामात्रस्य कृते अनुभावितसर्वसौख्यायाः संपूर्ण - गृहस्य स्वामिन्या अपि सुष्ठुकृतं रतं विस्मर्यते' इत्युपालम्भातिशयो द्योत्यते । 'संतिष्ठते' इति 'सम्' उपसर्गेण - 'यदि कदाचिदप्राप्तनवसंगमदशायां परिणयप्रसङ्गेण पूर्वपत्न्याः किञ्चित्स्मृतिरपि भवेत् परं सम्यक् सा हृदये न तिष्ठति' इति स्थैर्याभावो द्योत्यते । 'अभिनव विषयानुरक्तः पूर्वानुभूतमवधीरयतीति निदर्शयन्कोऽपि वयस्यमाह' इति गङ्गाधरावतरणम् । दोषदर्शनेप्यतिरागाविष्टः कश्विद्धृदयस्य दशां वयस्यं प्रत्येवमाह - जड़ लोकणिन्दिअं जइ अमङ्गलं जइ विमुकमज्जाअम् । पुप्फइदंसणं तहवि देह हिअअस्स णिवाणम् ॥ ८० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy